________________
आप्तमीमांसा।
४१ तिशयेन विमोक्षः स्यादिति संबंधः । अथवा प्रागुक्तान्मोक्षप्रकारादन्येन प्रकारेणापि सह जन्मनो योगः स्यात् । तथा च सति न बन्धो नापि मोक्षस्तस्य विचाराक्षमत्वात् ॥ ९६ ॥
अष्टशती-यदि बंधोऽयमविज्ञानात् नेदानी कश्चिन्मुच्येत सर्वस्यैव कचिदज्ञानोपपत्ते यानंत्यात् ।।. यदि पुनर्ज्ञाननिहसाद्ब्रह्मप्राप्तिः-अज्ञानात्सुतरां प्रसज्येत । दुःखनिवृत्तेरिव सुखप्राप्तिः ॥ ९६ ॥
विरोधानोभौकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकतिऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९७ ॥ वृत्तिः-उभयकांतावक्तव्यमपि दुष्टं विरोधात् ॥ कथं तर्हि तौ स्यातामत आह
अष्टशती-नहि सर्वात्मनैकस्यैकदा ज्ञानस्तोकान्मोक्षो वहुतराज्ञानाबंध इत्येकांतयारविरोधः स्याद्वा-. दन्यायविद्विषां सिद्धयति येन तदुभयैकात्म्यं स्यात् ।। ९७ ॥
- अज्ञानान्महितो बंधो नाज्ञानाद्वीतमोहतः ।
शानस्तोकाच्च मोक्षः स्यादमोहान्मोहितोऽन्यथा ॥ ९८ ॥ वृत्तिः-ज्ञानात्पुनरपि किंविशिष्टात् मोहतो मिथ्यात्वरूपाबंधो भवति विनष्टमिथ्यात्वरूपादज्ञानात्पुनर्न बंधो भवति ज्ञानस्तोकादपि मोक्षः स्याद्यद्यमोहाद्भवेत् यदि पुनर्मोहितः स्यात्तस्य मोक्षाभाव एवं ॥९८॥
___ अथ कदाचिन्मनुषे न दैवान्नापि पौरुषान्न ज्ञानान्नाप्यज्ञानात् किं तु ईश्वरप्रेरणादित्यस्य मतस्य निराकरणायाह-अथवा कामादीनां कमर्णश्च वैचित्र्यमनादित्वं च दर्शयितुमाह
अष्टशती-मोहनीयकर्मप्रकृतिलक्षणादज्ञानाद् युक्तः कर्मबंधः ततोऽन्यतोऽपिबंधाभ्युपगमेऽतिप्रसंगात्। . तथैव बुद्धरपकर्षात् मोहनीयपरिक्षयलक्षणान्मोक्षमिति । विपर्ययेऽपि विपर्यासादित्यधिगंतव्यं ॥ ९८ ॥2
कामादिप्रभवश्चित्रः कर्मबंधानुरूपतः ।
तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्धयशुद्धितः ॥ ९९ ॥ वृत्तिः-कामादीनां रागादीनां प्रभव उत्पादः कार्यरूपश्चित्रों नानाप्रकारः । कर्मबन्धानुरूपतः ज्ञानावरणदिकर्मणः कारणाद्भवति तच्च कर्म ज्ञानावरणादिकं स्वहेतुभ्यो भवति । कुत एतत् ? अनादिबंधबंधहेतुसंतानों बीजांकुरवत् न पुनरीश्वरादेस्तस्यावस्तुत्वात् विरागाक्षमत्वेन । न तर्हि केषांचिन्मुक्तिरन्येषां संसारश्च. कर्मबंधनिमित्तविशेषादिति चेदाह- ते भगवतोऽर्हतो जीवा द्विप्रकाराः संसारिणः सति । कुतः शुद्धयशुद्धितो भव्याभव्यशक्तेः । अत एव न सर्वेषां मोक्षः । एतेनान्यदपि. मतांतरं निराकृतं वेदितव्यं ॥१९॥
शुद्धयशुद्धिस्वरूपप्रतिपादनायाह
अष्टशती-संसारोऽयं नैकस्वभावेश्वरकृतः तत्कार्यसुखदुखादिवैचित्र्यात् । न हि कारणस्यैकरूपत्वे कार्यनानात्वं युक्तं शालिबीजवत् । अपरिणामिनः सर्वथार्थक्रियासंभवात् तल्लक्षणत्वाच. वस्तुनः सद्भावमेव : तावन्न संभावयामः । तत्र कालदेशावस्थास्वभावभिन्नानां तनुकरणभुवनादीनां किलायं कर्तेति महच्चित्रं एतेनेश्वरेच्छा प्रत्युक्ता | नचैतेनास्याः संबंधः तत्कृतोपकारानपेक्षणात् ततो व्यपदेशोऽपि माभूत् अभिसंधेरनित्यत्वेऽपि समानः प्रसंगः । सकृदुत्पत्त्यादिप्रसंगाद्विचित्रत्वानुपपत्तेरिति । तयोरकरूपत्वेऽपि कर्मवैचित्र्यात्कामादिप्रभववैचित्र्यमिति चेत् ? युक्तमेतत् । किंतु नेश्वरेच्छाभ्यां किंचित्तावतार्थपरिसमाप्तेः । एतेन विरम्य प्रवृत्तिसन्निवेशविशेषादिभ्यः पृथिव्यादेबुद्धिमत्कारणपूर्वकत्वज्ञानेनेश्वरप्रमाणं प्रत्युक्तं । प्राक्काय
१। मोहिनः इत्यपि पाठः २ । पत्रपि मोहिन इति पाठः ।