________________
आप्त मीमांसा ।
प्रामाण्यात्कथमफलं स्यात् ? । तथाहि समाने हि समानानां केचिदर्थेषु युज्यंते कचिन्न प्रसिद्धमेतत् । अन्यथा दैवमंतरेण पौरुषादेव पौरुषस्य प्रवृत्तौ सत्यां सर्वप्राणिषु पौरुषममोघमेव सफलमेव स्यात् दैवहीनानामपि तद्भवति ॥ ८९ ॥
उभयैकांतेऽपि न युक्तं—
अष्टशती - तार्द्ध पौरुषं विना दैवसंपदा न स्यात् तदुक्तं
तादृशी जायते बुद्धिर्व्यवसायश्व तादृशः ।
सहायास्तादृशाः संति यादृशी भवितव्यता ॥ १ ॥
इति तत्सर्वं पौरुषापादितमिति चेत् तद्व्यभिचारदर्शिनो न वै श्रदधीन् ॥ ८९ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषां ।
अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९० ॥
४१
वृत्तिः - उभयदोषप्रसंगात् । अवाच्यत्वदोषाच्च ॥ ९० ॥
दैवात्केवलात्पौरुषाच्च केवलादर्थसिद्धिर्यदि न भवति कथं तर्हि स्यादत आह
भष्टशती - दैवेतरयोः सहैकांताभ्युपगमे व्याघातात्, अवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः॥९०॥ अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः ।
बुद्धिपूर्वव्यैपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ ९१ ॥
वृत्तिः -- बुद्धिर्विचारः पूर्वे प्रथमं कारणं यस्याः सा तथा न बुद्धिपूर्वा अबुद्धिपूर्वा सा चासावपेक्षा च आलोचनं च सा तथा तस्यामतर्कितोपस्थितन्यायेनेत्यर्थः । इष्टमभिलषितं सुखादि अनिष्टमनभिलषितं दुःखादि । स्वदैवतः स्वपुण्यपापफलात्पूर्वजन्मनिबद्धकर्मणः । यद्यपि पौरुषमात्रं विद्यते तथापि मुख्या विवक्षितो नात्यंताभावः । तथा बुद्धिपूर्वव्यपेक्षायां विचारपूर्वकत्वेनानुष्ठानादिष्टमनिष्टं च स्वपौरुषात्स्वकी - यपुरुषकारात् । अत्रापि दैवमप्रधानत्वेन विवक्षितं नात्यंताभावत्वेन । परस्परापेक्षयैव कार्यसिद्धिर्यतो देव आत्मा तस्य कर्म दैवमिति ॥ ९१ ॥
ननु परदुःखे पापं तस्यैव सुखे पुण्यं स्वदुःखात्पुण्यं स्वसुखात्पापमित्येवं कैश्चिदभाणि न देवादिति तन्मतनिराकरणायाह—
अष्टशती - अतर्किर्तोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतं तद्विपरीतं हि पौरुषापादितं । अपेक्षाकृतत्वात्तदूव्यस्थायाः ॥ ९१ ॥
इत्यप्तमीमांसाभाष्ये अष्टमः परिच्छेदः ।
पापं धवं परे दुःखात् पुण्यं च सुखतो यदि ।
अचेतनाकषायौ च बध्येयातां निमित्ततः ॥ ९२ ॥
वृत्तिः-परेऽन्यस्मिन् प्राणिनि दुःखमात्राद्यदि पापं स्यात् । तस्मिन्नेव सुखमात्राच्च पुण्यं यदि स्यात् । तदानीमचेतनो विषशस्त्रादिरकषायो वीतरागः तावपि बध्येयातां कर्मबंधस्य कर्तारौ भवतः । निमित्तत्त्वात् । प्रत्ययमंतरेणापि भावप्रधानत्वान्निर्देशस्य ॥ ९२ ॥
तथा---
१ । विवक्षायमित्यपि पाठः ।
६