SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आप्त मीमांसा । प्रामाण्यात्कथमफलं स्यात् ? । तथाहि समाने हि समानानां केचिदर्थेषु युज्यंते कचिन्न प्रसिद्धमेतत् । अन्यथा दैवमंतरेण पौरुषादेव पौरुषस्य प्रवृत्तौ सत्यां सर्वप्राणिषु पौरुषममोघमेव सफलमेव स्यात् दैवहीनानामपि तद्भवति ॥ ८९ ॥ उभयैकांतेऽपि न युक्तं— अष्टशती - तार्द्ध पौरुषं विना दैवसंपदा न स्यात् तदुक्तं तादृशी जायते बुद्धिर्व्यवसायश्व तादृशः । सहायास्तादृशाः संति यादृशी भवितव्यता ॥ १ ॥ इति तत्सर्वं पौरुषापादितमिति चेत् तद्व्यभिचारदर्शिनो न वै श्रदधीन् ॥ ८९ ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषां । अवाच्यतैकांतेऽप्युक्तिर्नावाच्यमिति युज्यते ॥ ९० ॥ ४१ वृत्तिः - उभयदोषप्रसंगात् । अवाच्यत्वदोषाच्च ॥ ९० ॥ दैवात्केवलात्पौरुषाच्च केवलादर्थसिद्धिर्यदि न भवति कथं तर्हि स्यादत आह भष्टशती - दैवेतरयोः सहैकांताभ्युपगमे व्याघातात्, अवाच्यतायां च स्ववचनविरोधात् स्याद्वादनीतिः॥९०॥ अबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः । बुद्धिपूर्वव्यैपेक्षायामिष्टानिष्टं स्वपौरुषात् ॥ ९१ ॥ वृत्तिः -- बुद्धिर्विचारः पूर्वे प्रथमं कारणं यस्याः सा तथा न बुद्धिपूर्वा अबुद्धिपूर्वा सा चासावपेक्षा च आलोचनं च सा तथा तस्यामतर्कितोपस्थितन्यायेनेत्यर्थः । इष्टमभिलषितं सुखादि अनिष्टमनभिलषितं दुःखादि । स्वदैवतः स्वपुण्यपापफलात्पूर्वजन्मनिबद्धकर्मणः । यद्यपि पौरुषमात्रं विद्यते तथापि मुख्या विवक्षितो नात्यंताभावः । तथा बुद्धिपूर्वव्यपेक्षायां विचारपूर्वकत्वेनानुष्ठानादिष्टमनिष्टं च स्वपौरुषात्स्वकी - यपुरुषकारात् । अत्रापि दैवमप्रधानत्वेन विवक्षितं नात्यंताभावत्वेन । परस्परापेक्षयैव कार्यसिद्धिर्यतो देव आत्मा तस्य कर्म दैवमिति ॥ ९१ ॥ ननु परदुःखे पापं तस्यैव सुखे पुण्यं स्वदुःखात्पुण्यं स्वसुखात्पापमित्येवं कैश्चिदभाणि न देवादिति तन्मतनिराकरणायाह— अष्टशती - अतर्किर्तोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतं तद्विपरीतं हि पौरुषापादितं । अपेक्षाकृतत्वात्तदूव्यस्थायाः ॥ ९१ ॥ इत्यप्तमीमांसाभाष्ये अष्टमः परिच्छेदः । पापं धवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकषायौ च बध्येयातां निमित्ततः ॥ ९२ ॥ वृत्तिः-परेऽन्यस्मिन् प्राणिनि दुःखमात्राद्यदि पापं स्यात् । तस्मिन्नेव सुखमात्राच्च पुण्यं यदि स्यात् । तदानीमचेतनो विषशस्त्रादिरकषायो वीतरागः तावपि बध्येयातां कर्मबंधस्य कर्तारौ भवतः । निमित्तत्त्वात् । प्रत्ययमंतरेणापि भावप्रधानत्वान्निर्देशस्य ॥ ९२ ॥ तथा--- १ । विवक्षायमित्यपि पाठः । ६
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy