________________
आप्तमीमांसा।
सिद्धसाध्यतापारहारद्वारेणामुमेवार्थ प्रकटयन्नाह
अष्टशती-स्वरूपव्यतिरिक्तेन शरीरेंद्रियादिकलापेन जीवशब्दोऽर्थवान् अतो न कृतः प्रत्यक्षतः स्यात् । इति विक्लवोल्लापमानं लोकरूढेः समाश्रयणात् । यत्रायं व्यवहारः जीवो गतस्तिष्ठतीति वा नात्र संज्ञा, अभिप्रेतमात्रं सूचयति ततोऽर्थक्रियायां नियमायोगात्, तत्करणप्रतिपत्तीनां तदभावनादरणीयत्वात्, साधनतदाभासयोरन्याथा विशेषासंभवात्, परंपरयापि परमार्थंकतानत्वं वाचः प्रतिपत्तव्यं । कचिद् व्यभि चारदर्शनादनाष्वासे चक्षुरादिबुद्धस्तदाभासोपलब्धेः कुतो धूमादरग्न्यादिप्रतिपत्तिः ? कार्यकारणभावस्य व्यभिचारदर्शनात् । काष्टादिजन्मनोऽग्नेरिव मणिप्रभृतेरपि भावात् । तद्विशेषपरीक्षायामितरत्रापि विशेषाभावात् । अभिसंधिवैचित्र्यादभिधानव्यभिचारोपलंभे तदितरकारणसामग्रीशक्तिवैचित्र्यं पश्यतां कथमाश्वासः । तस्मादयमक्षलिंगसंज्ञादोषाविशेषेऽपि कचित्परितुष्यन्नन्यतमप्रद्वेषेण ईश्वरायते परीभाक्लेशलेशाऽसहत्वात् । भावोपादानसंभवे हि समाख्यानामितरेतरोपादानप्रक्लूप्तिः। भावश्चात्र हर्षविषादाद्यनेकविकारविवर्तः प्रत्यात्मवेदनीयः प्रतिशरीरं भेदाभेदात्मको प्रत्याख्यानार्हः प्रतिक्षिपंतमात्मानं प्रतिबोधयतीति कृतं प्रयासेन । न हि मायादिसमाख्याः स्वार्थरहिताः विशेषार्थप्रतिपत्तिहेतुत्वात् प्रमाणसमाख्यावत् ॥ ८४ ॥ .
बुद्धिशब्दार्थसंज्ञास्तास्तिस्रो बुद्धयादिवाचिकाः।
तुल्या बुद्धयादिबोधाश्च त्रयस्तत्मतिबिंबिकाः ॥५॥ बृत्तिः-बुद्धिश्च शब्दश्चार्थश्च बुद्धिशब्दार्थास्तेषां संज्ञा बुद्धिशब्दार्थसंज्ञास्तिस्रस्त्रिसंख्याः। बुद्धिरादिर्येषां ते बुद्धयादयस्तेषां वाचिकाः प्रतिपादिका तुल्याः समाः । केन ? बुद्धयाद्यर्थप्रतिपादकत्वेन । बुद्धयादीनां बोधाश्च ज्ञानानि च बुद्धयाद्यर्थस्य प्रविविंबिका प्रतिनिधयस्त्रयस्तेऽपि तुल्या अर्थप्रतिपादकत्वेन ॥ किमुक्तं भवति-गौरिति जानीत इतीयं बुद्धेर्वाचिका संज्ञा । तस्याश्च श्रोतुः पुरुषस्य स्वार्थे बोधको बोधो भवति । गौरित्याहेतीयं शब्दस्य स्वस्यैव रूपस्य वाचिका संज्ञा । तस्याश्च श्रोतुः पुरुषस्य स्वार्थे शब्दस्य स्वस्मिन्नेव रूपे बोधको बोधो भवति । गामानय दोहार्थमितीयं संज्ञा बाह्यार्थस्य वाचिका भवति । तस्याश्च श्रोतुः स्वार्थे सास्नादिमति पिण्डे बोधको बोधो भवति । ततो बुद्धयाद्यर्थवाचकत्वेन संज्ञास्तिनः समा एव बुद्धयादीनां शब्दार्थानां त्रयोऽपि बोधका वेदका बोधा बुद्धयादिशब्दार्थप्रतिभासकाश्च समा एव तत्प्रतिभासकत्वेन।।८५॥
पुनरप्याशंक्य तमेव बाह्यार्थ प्रतिपादपन्नाह--
अष्टशती-हेतुव्यभिचाराशंकां प्रत्यस्तमयति-तिसृणामपि स्वव्यतिरिक्तवस्तुसंबंधदर्शनात्तबुद्धीनां. च तन्निर्भासनात्तद्विषयतोपपत्तेः ॥ ८५ ॥
वक्तृश्रोतृप्रम तृणां वाक्यबोधप्रमाः पृथक् ।
भ्रांतावेव प्रमाभ्रांतौ बाह्यार्थों तादृशेतेरौ ॥ ८६ ॥ वृत्तिः-वक्ता च श्रोता च प्रमाता च वक्तृश्रोतृप्रमातारस्तेषां वक्तृश्रोतृप्रमातृणां वाचकश्रावकज्ञापकानां । यथासंख्यं वाक्यं.च बोधश्च प्रमा च वाक्यबोधप्रमाः शब्दशाब्दप्रत्यक्षानुमानानि । पृथक व्यवस्थितलक्षणानि । भ्रांतावेव यदि भ्रांतिस्वरूपे व्यवतिष्ठेरन् न तु वर्तेरन्निति वाक्यशेषः । ततः को दोषः स्यादित्याह-प्रमाभ्रांतौ सर्वेषां प्रमाणानां बाह्यापेक्षायां द्वैविध्ये सति प्रमाणयोः प्रत्यक्षाप्रत्यक्षयोः प्रत्यक्षानुमानयोर्वा भ्रांती भ्रांतिस्वरूपतायां सत्यामपि । बाह्यार्थों बाह्यविशेषों दृश्यानुमेयाख्यौ । तादृशात्प्रस्तुताभ्रांतस्वरूपादितरावन्यावभ्रांतस्वरूपौ क्रमाक्रमानेकांतात्मको संतौ विभावनीयौ स्यातां । अथ वा प्रमाभ्रांतौ यौ भ्रांताभ्रांती बाह्यार्थौ भ्रांतावेव तत इदं भ्रांतमिदमभ्रांतमिति विचारोऽनर्थकः स्यात् ॥ ८६ ॥
बाह्यार्थे सति प्रमाणमप्रमाणं च युज्यते नान्यथाऽत आह