________________
सनातनजैनमंथमालायांवृत्तिः-कारणं गुणी सामान्य वस्तु द्रव्यमित्युच्यते, कार्य गुणो विशेषः पर्याय इत्युच्यते, तयोरेक्यमेकेवं कुतस्तयोरव्यतिरेकतः द्रव्यपर्याययोख्यतिरेकोपलंभात् । एतेनास्य हेतोः प्रतिज्ञार्थंकदेशासिद्धत्वं प्रत्युक्तम् । परिणामः-कारणस्यान्यथाभाषः वाग्गोचराऽतीतस्तस्य विशेषश्च तस्मात्परिणामविशेषाच्च तयोरैक्यं । शक्तयो विद्यन्ते यस्य तच्छक्तिमत्-द्रव्यं परिणामि । प्रतिनियतकार्यसम्पादनसामर्थ्य विशेषाः शक्तयो यथा घृतादेः स्नेहतर्पणबृंहणादयः । तयोर्भावस्तस्मात् तयोरैक्यमिति वेदिवन्यं ॥७१॥ कथंचिद्भेदनिरूपणार्थमाह
संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः।
प्रयोजनादिभेदाच्च तन्तानात्वं न सर्वथा ॥७२॥ वृत्तिः-संज्ञा नाम, संख्या एकादिका, तयोर्विशेषो भेदस्तस्मात्तयोर्नानात्वं भेदः । दृश्यते च संज्ञाभेदः ऊढाऽत्र वधूः प्रमदा कामिनी क्रोधवती भामा | द्वित्वादेकत्वं संख्योभेदोऽपि प्रतीतः। स्वमसाधारणं लक्षणं स्वरूपं यस्य स चासौ विशेषस्तस्मात्तयोर्नानात्वं । तथा च द्रव्येणान्यत्प्रयोजनं पर्यायेणान्यत् वृक्षपत्रपुष्पवत् ।।
अपेक्षानपेक्षकांतप्रतिक्षेपार्थमाह
अष्टसती-यत्प्रतिभासभेदेऽपि अव्यतिरिक्तं तदेकं यथा वेद्यवेदकज्ञानं रूपादिद्रव्यं वा । तथा च द्रव्यपर्यायौ न व्यतिरिच्यते तदन्यतरापायेऽर्थस्यानुपपत्तेः। उपयोगविशेषादूपादिज्ञाननिर्भासभेदः स्व विषयैकत्वं न वै निराकरोति सामिग्रीभेदेऽपि युगपदेकार्थोपनिबद्धविशदेलरज्ञानवत् । तदेवं सति विरोधाद्युपलंभश्चतुरस्रधियां मनो मनागपि न प्रीणयति । वर्णादेरप्यभावप्रसंगात् एकत्वानकत्वैकांती नान्योऽन्यं विजयेते भावस्वभावप्रतिबंधनात् । यत्परस्परविविक्तस्वभावपरिणामसंज्ञासंख्याप्रयोजनादिकं ताद्भिन्नलक्षणं, यथा भेदादि, तथा च द्रव्यपर्यायौ । विरुद्धधर्माध्यासास्खलद्बुद्धिप्रतिभासभेदाभ्यां वस्तुस्वभावभेदसिद्धेः--अन्यथा नानैकं जगत्स्यात् तदभ्युपगमप्रकारांतरासंभवात् ॥ ७१ ।। ७२ ॥
___इत्याप्तमीमांसाभाष्ये चतुर्थः परिच्छेदः
यद्यापेक्षिकसिद्धिः स्यान द्वयं व्यवतिष्ठते ।
अनापेक्षिकसिद्धौ च न सामान्य विशेषता ॥ ७ ॥ वृत्तिः-अपेक्षैव प्रयोजनमेषामर्थानां सिद्धिनिष्पत्तिनिश्चितिर्वा । अथवाऽऽपेक्षिकी चासौ सिद्धिश्च सा यदि स्यात् । कार्यकारणादि युगपद्व्यं न व्यवतिष्ठते न घटते । एकेनैकस्य प्रतिहतत्वात् । यदि पुनरनापेक्षिकसिद्धिस्तस्यामभ्युपगम्यमानायां सामान्यं च विशेषश्च तयोर्भावः सामान्यविशेषता सा न स्यात्न भवेत् । तस्मात्स्वरूपेण स्वत एव सिद्धन भवितव्यं । धर्मिधर्मभावश्च परस्परापेक्षः ।। ७३ ॥
उभयकांतं दर्शयन्नाहअष्टशती-कारिकाद्वयेन सामान्यविशेषात्मानमर्थ संहृत्य तत्रापेक्षानपेक्षकांतप्रतिक्षेपायाह
तयोरन्योन्योपक्षकांते स्वभावतः प्रतिष्ठितस्यैकतरस्याप्यभावेनान्यतराभावात् उभयं न प्रकल्पेत । दूरासन्नभावयोरपि स्वभावविर्वतविशेषाभावे समानदेशादेरप्यभावप्रसंगात् । तदिमौ स्वभावतः स्तां । अन्यथेतरेतराश्रयदोषानुषंगादनपेक्षापक्षेपि नान्वयव्यतिरेको स्यातां, भेदाभेदयोरन्योन्यापेक्षात्मकत्वात् विशेषेतरभावस्य ॥ ७३ ॥