________________
आप्तमीमांसा। पदार्थो भवति । कुतः ? प्रक्रियायाः स्वरूपादिचतुष्टयलक्षणायाः विपर्ययात्पररूपादिचतुष्टयात्। तस्माद्यदवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्तु यथा खपुष्पं । तस्मादेतदेवैकस्योपलन्धिर्यदन्यस्यानुपलब्धिरिति ॥
पुनरप्यवक्तव्यवादिनमुपालभते___ अष्टश-भावव्यतिरेकवाचिभिरपि वाक्यतामापन वाभिधानात, नात्र किंचिद्विरुद्धं । अतः सूक्तं यदवस्तु तदनभिलाप्यं यथा न किंचित् । यत्पुनरभिलाप्यं तद्वस्त्वेव यथा खपुष्पं । अन्यस्य कैवल्यमितरस्य वैकल्यं, स्वभावपरभावाभ्यां भावाभावव्यवस्थितिर्भावस्य ॥ ४८ ॥
सर्वांताश्चेदवक्तव्यास्तेषां किं वचनं पुनः।
संवृत्तिश्चन्मवैषा परमार्थविपर्ययात् ॥ ४९ ॥ वृत्तिः-यदि सर्वाताः सर्वधर्मा अवक्तव्या अवाच्यास्तेषां मतानां यदेतद्वचनमुक्तिः “सर्वथा प्रतिक्षणं निरन्वयविनाशिनो निरंशाः सजातीयविजातीयव्यावृत्ता इत्यादिकं" पुनः पुनरावर्तमानं किमर्थं स्यात् । अथ मतं परमार्थ न तद्भवेत्किं तु संवृतिः । यद्यैवं मृषैवैषा व्यलकैव सा । कुतः ? परमार्थस्य तत्त्वरूपस्य विपर्ययोऽभावः यतः । संवृतिनामोपचारः, न च सा परमार्थमंतरेण भवति ।। ४९ ॥ ... अष्टशती-पुनरपि-अवक्तव्यवादिनं पर्यनुयुंज्महे-सर्वधर्मा यदि वाग्गोचरतामतीताः, कथमिमेऽभिलाप्यते इति । संवृत्त्या इति चेत् ? न विकल्पानुपपत्तेः । स्वरूपेण चेत् ? कथमनभिलाप्याः ? पररूपेण चेत्तेषां स्वरूपं स्यात् केवलं वाचः स्खलनं गम्यते । उभयपक्षेऽप्युभयदोषप्रसंगः । तत्त्वेन चेत् ! कथमवाच्या । मृषात्वेन चेत् ? कथमुक्ताः तदलमप्रतिष्ठितमिथ्याविकल्पोधैः ॥ ४९ ॥
अशक्यत्वादवाच्यं किमभावात्किमबोधतः ।
आधंतोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटं ॥ ५० ॥ वृत्तिः-इदं तावदवक्तव्यवादी प्रष्टव्यः । किमशक्यत्वादसामर्थ्यादवाच्यं ? आहोस्विदभावात् ? किममनात् ? विकल्पत्रयं । न तावदशक्यत्वाद्दशनागसहस्रवलवत्त्वाद् बुद्धस्यः । नाप्यज्ञानात्सर्वज्ञत्वेन परिकल्पितं यतः । यस्मादायुक्तिरादिविकल्पोऽतोक्तिस्तृतीयविकल्प एतद्द्यं न भवेत् । तस्मात्किं व्याजेन छद्मना ? उच्यतां भण्यतामभावादेवावाच्यं स्फुटमिति । न चैतदभावमात्रं प्रमाणसिद्धं प्रमाणस्याप्यभावात् ।। ५०॥
क्षणिकैकांतवादिकल्पिता हिंसा पंचभिः कारणैः प्राणप्राणिजनव्याघातचित्ततद्भतचेष्टाप्राणवियोगैर्न, बंधाक्षादिश्च न घटत इत्याह
अष्टशती-अर्थस्यानभिलाप्यत्वं-अभावात् ,वक्तुरशक्तेः ?-अनवबोधाद्वा प्रकारांतराभावाद्वा:बुद्धिकरणपाटवापेक्षत्वात् ? न च सर्वत्र तदभावो युक्तः ततो नैरात्म्यान्न विशिष्यते मध्यमपक्षावलंबनात्। अशक्यसमयत्यात अनभिलाप्यमर्थरूपमिति चेन्न कथंचिच्छक्यसंकेतत्वात् , दृश्यविकल्पस्वभावत्वात् परमार्थस्य प्रतिभासभेदेऽपि इत्युक्तं । विषयविषयिणोभिन्नकालत्वं प्रत्यक्षेऽपि समानं.। अविपरीतविप्रतिपत्तिरन्यत्रापि । दर्शन विकल्पयोः परमार्थंकतानत्वाभावे न किंचित्सिद्धं दृष्टस्यानिर्णयात् अदृष्टकल्पत्वात् । अदृष्टनिर्णयस्य प्रधानादिविकल्पाविशेषात् ॥ ५० ॥
हिनस्त्यनभिसंधातृ न हिनस्त्यभिसंधिमत् ।
बद्धयते तद्वयापेतं चित्तं बद्धं न मुच्यते ॥ ५१ ॥ वृत्तिः--क्षणिकैकांतवादेऽभिसंधिमत्-मारणाभिप्रायवत् । चित्तं तत्परिकल्पितरूपज्ञानं जीवसदृशं तत्प्राणिनं न हिनस्ति न मारयति । यत्र हिनस्ति तदनभिसंधातृ अनभिप्रायवत् । बध्यते च कर्मणा तवयापेतं ॥११॥