________________
आप्तमीमांसा। वृत्तिः-प्रमाणानि प्रत्यक्षादीनि । कर्तृकर्मकरणसंप्रदानापादानाधिकरणानि कारकाणि तैर्व्यक्तं प्रकाशिवं व्यंजितं कृतं । व्यक्तं महदादि । यथेंद्रियैश्चक्षुरादिभिरर्थो विषयः । चेद्यद्येवं । ते च व्यंग्यव्यंजके नित्ये अविचलितकरूपे । किं विकार्य यावता हि न किंचिदपि । तव साधोर्मुनेः शासनात् प्रवचनात् । बहिरंतेष्वयमेव हि विकारो यो वस्तुन्यन्यथाभावो व्यकिरप्यन्यथाभावः अव्यक्तान्य तमन्यत् । तव शासने पुनः सर्व सुघटम् ।
पुनरपि कदर्थयितुमाह
अष्टशती-अथ मतं-प्रमाणकारकाणि व्यवस्थितमेव भावं व्यं जयंति । चक्षुरादिवत्स्वार्धं ततो न किंचिद्धिप्रतिषिद्धं । विषयविशेषविज्ञानादेः शाश्वतत्वान्न किंचिद् व्यक्तार्थ पश्यामः । कथंचिदपूर्वोत्पत्ती तदेकांतविरोधात् तदभावविका-नुपपत्तेः । न वै किंचिद्विरुद्ध कार्यकारणभावाभ्युपगमात् इत्यनालोचितसिद्धांतः।।
यदि सत्सर्वथा कार्य पुंवन्नोत्पतुमर्हति ।।
परिणामप्रक्लप्तिश्च नित्यत्वकांतवाधिनी ॥ ३९॥ वृत्ति:-असत्किंचिदपि नोपपद्यते सर्व सर्वत्र सर्वस्मादत आह । यदि सर्वथा विश्वप्रकारैर्यथा शक्त्यात्मना एवं व्यक्तात्मनापि कार्य घटादिकं सत् विद्यमानं पुमानिव पुंवत् सांख्यपरिकल्पितपुरुषवत् । नोत्पक्तुं नो प्रादुर्भवितुमर्हति योग्यं भवति । यद्यत्सर्वथा सत् न तदुत्पद्यते यथा सांख्यपुरुषः सच्च सर्वथा कार्य तस्मान्नोत्पद्यते। अथ व्यवस्था तस्य द्रव्यस्य धर्मातरत्यागैर्धमांतरोपजनितः परिणाम इष्यते ? अत आह परिणामस्य प्रक्लृप्तिः कल्पना समर्थन च सर्वस्य नित्यत्वमिति योऽयमेकांतस्तस्य बाधिनी निराकरणशीला विरोधिनी इत्यर्थः ।
अतो बन्धमोक्षादिकमत्र न संभवति नित्यत्वात्प्रकृतिपुरुषयोस्तव मते पुनः संभवतीत्याह
अष्टशती-न तावत्सतः कार्यत्वं चैतन्यवत् । नाप्यसतः सिद्धांतविरोधात् गगनवकुसुमवत् । नापरमेकांतप्रकारांतरमस्ति । विवर्तादेः पूर्वोत्तरस्वभावप्रध्वंसोत्पत्तिलक्षणत्वात् । तदेतत्रैलोक्य व्यक्तेरपैति नित्यस्वप्रतिषेधात्-अपेतमप्यस्ति विनाशप्रतिषेधात् इत्यनेकांतोक्तिरंधखर्पविलप्रवेशन्यायमनुसरति ॥ ३९ ॥
पुण्यपापक्रिया न स्यात् प्रेत्यभाषः फलं कुतः।
पंधमोक्षौ च तेषा न येषां त्वं नासि नायकः ॥ ४० ॥ वृत्तिः--मैत्रीप्रमोदकरुणादिक्रियाऽभावे कुतः पुण्यहतुत्वात् पुण्य । हिंसादिरशुभपरिणामः पापहेतुत्वात्पापं । तयोः क्रिया क्षयोपार्जनं न स्यान्न भवेत् अत एव क्रियाऽभाव कुतः प्रेत्यभावः ? जन्मांतरफलं च सुखदुःखादिरूपं कुतः ? बंधः कर्मणाऽस्वतंत्रीकरणं मोक्षः स्वात्मोपलब्धिः एतौ च द्वौ तेषां न येषां त्वं नासि-न भवसि नायकः प्रभुः ? किमुक्तं भवति एतत्सर्वं त्वच्छासन एव नान्येषां नित्यत्ववादिनां कुतः ? विक्रियाऽभावात् ॥ - न केवलं नित्यैकांत एतेषामभावः किंतु
अष्टशती-नैतत्प्रेक्षापूर्वकारिभिराश्रयणीयं पुण्यपापप्रेत्यभावबंधमोक्षविकल्परहितत्वात् नैरात्म्यादिवत् । न चैतत्क्वचिदेकांते संभवति ॥ ४० ॥
क्षणिकैकांतपक्षेपि प्रेत्यभावाद्यसंभवः।
प्रत्यभिज्ञाद्यभावान कार्यारंभः कुतः फलं ॥४१॥ वृत्तिः-क्षणिको निरन्वयविनाशः स एवैकांतपक्षस्तस्मिन्नपि प्रेत्यभावादीनां जन्मांतरादीनामसंभवो ऽभावः । प्रत्यभिज्ञा स एवायमिति ज्ञानं सा. आदिर्येषां ते प्रत्यभिज्ञादयस्तेषामभावस्तस्मान कार्यारंभ ओ