________________
ܘܐ
सनात मजैन प्रथमालायां
सदात्मना च भिन्नं चेत् ज्ञानं ज्ञेयाद्विधाऽप्यसत् । झानाभावे कथं ज्ञेयं वहिरंतश्च ते द्विषां ॥ ३० ॥
वृति::- तथा चैतन्यस्वरूपेण ज्ञेयात्प्रमेयात् ज्ञानमवबोधो भिन्नमन्यच्चेद्यदि सदात्मना चास्तित्वरूपेणापि पृथक् स्यात् । द्वेधाऽपि ज्ञान ज्ञेयं चासत्स्यात् । अभावः स्यात् । कुतः ? ज्ञानाभावे बोधशून्ये कथं ज्ञेयम् । बहिर्ब्राह्यं । अन्तः अतरङ्गं च । ते द्विषां तुभ्यं द्विषतां मिथ्यादृशाम् । यस्माज्ज्ञाने सति 'ज्ञेयं विषयत्वात्, ज्ञेये सति ज्ञानं च भवति तत्परिच्छेदकत्वात् । तस्मात् ज्ञानं कथंचिदभिन्नमेषितव्यं सदाद्यात्मनाऽन्यथाऽवस्तु स्यात् ।
. सार्थविशेषस्य वाच्यवाचकतेष्यते तस्य पूर्वमदृष्टत्वात्सामान्यं त्वपदिश्यते शब्दैरित्यभिप्रायवतो मतमाश्रित्य तत्कदर्थयितुमाह
अशी- विषयिणो विषयात्कथंचित्स्वभावभेदेऽपि सदाद्यात्मना तादात्म्यं बोधाकारस्येव विषयाकारात्, विशेषाभावात् । अन्यथा ज्ञानमवस्त्वेव खपुष्पवत् । तदभावे बहिरंतर्वा ज्ञेयमेव न स्यात् तदपेक्षत्वात् ॥ ३० ॥
सामान्यार्थी गिरोऽन्येषां विशेषो नाभिलप्यते ।
सामान्याभावतस्तेषां मृषैव सकला गिरः ॥ ३१ ॥
वृति:- : - अथ मतं सामान्यमस्माभिरिष्यते किंतु शब्दगोचरत्वादवस्तु, अत आह । सामान्यं विकल्पेनेष्ठोऽर्थो वाघ्यो यासां ताः सामाम्यार्थाः । गिरो वाचः । अन्येषां मिथ्यादृशां । यतस्ताभिर्विशेषो याथात्म्यं स्वलक्षणं नाभिलप्यते । यद्येवं सामान्यं तेषामवस्तु अतस्तस्याभावात्सकलाः समस्ता गिरो वचनानि मृषैवासत्यरूपा एव अतो न वाच्यं नापि वाचकोऽनुमानाभावः ॥ ३१ ॥
उभयैकांतं निराकर्तुकामः प्राह
अष्टशती-विशेषाणामशक्यसमयत्वात्-असंकेतितानभिधानात् विशेषदर्शनवत्तद्बुद्धावप्रतिभासनात् अर्थसंनिधानानपेक्षणाच्च, स्वलक्षणमनभिधेयं सामान्यमस्तु ? उच्यत इति वस्तु नोच्यत इति स्यात् । ततः किं शब्दोच्चारणेन संकेतन वा ? गोशब्दोऽपि हि गां नाभिचत्त यथाश्वशब्दः । तथाच मौनं यत्किंचिद्वा वचनमाचरत् विशेषाभावात् । अस्ति विशेषः कथं स्वार्थ नाभिदधीत न वै परमार्थैकतानत्वात् अभिधाननियमः किंतूपादानविशेषात् ? इत्यपि वार्त अविकल्पेऽपि तथैव प्रसंगात् । तदेवमनवधारितात्मकं वस्तुस्वलक्षणमापनपद्येत । नावश्यमिंद्रियज्ञानं - अर्थसंनिधानमपेक्षते विप्लवाभावप्रसंगात् । नापि विशादात्मकमेव दूरेऽपि तथाप्रतिभास प्रसंगात् । यथारात् । क्षणभंगादिसाधनवचनमन्यद्वा न किंचित्सत्यं वक्तुरभिप्रेतमात्र सूचितत्वात् । प्रधानेश्वरादिसाधनवाक्यवत् । सदर्थाप्रतिपादनाद्वा प्रसिद्धालीकवचनवत् । दृश्यविकल्पार्थाकारयोः कथंचिदप्यतादात्म्ये स्वलक्षणं सर्वथानवधारितलक्षणं दानादिचेतेोधर्मादिक्षणवत् कथं संशीति मतिवर्तेत । विकल्पानां चावस्तुविषयत्वादविकल्पेलरराश्योरर्थेतरविषयत्वमन्यद्वा स्वांशमात्रावलंबिना विकल्पांतरेण प्रत्येतीति सुपरिबोधप्रज्ञो देवानांप्रियः । स्वत एव विकल्पसंविदां निर्णये स्वलक्षणविषयोऽपि विकल्पः स्यात् । परतश्चेत्? अनवस्थानादप्रतिपत्तिः । अतोऽर्थविकल्पोऽपि माभूत् इत्यंवकल्पं जगत्स्यात् । नचायं परोक्षबुद्धिवादमतिशेते स्वयमनिर्णीतेन नामात्मना बुद्धिरर्थ व्यवस्थापयतीति सुव्यवस्थितं तत्त्वं । न वै स्वरूपं पररूपं वा बुद्धिरध्यवस्यति निर्विषयत्वादिभ्रांतेः । इदमतो भ्रांततरं बहिरंतश्च सद्भावासिद्धेः । स्वपरस्वभावप्रतिपत्तिशून्येन स्वपरपक्षसाधनदूषणव्यवस्थां प्रत्येतीति किमपि महाद्भुतं ॥ ३१ ॥
२ ताथागतमते स्वलक्षणविषयं प्रत्यक्षं सामान्यविषयं चानुमानं ततश्च सामान्याभावे
१ ज्ञेयं भवतीत्यर्थः । Sमानाभावः स्यादेत्येतदर्थः ।