________________
१२
आप्तमीमांसा
कथमक्षबुद्धेरूपादिविषयत्वानियमः ! तदभ्युगमे वा तदभिलापसंसर्गोऽपि तदनुमीयते । तस्मादयं किंचि. त्पश्यन् तत्सदृशं पूर्वदृष्टं न स्मर्तुमर्हति तन्नामविशेषास्मरणात् । तदस्मरन्नैव तदभिधानं प्रतिपद्यते । तदप्रतिपत्तौ तेन तन्न योजयति । तदयोजयन्नाध्यवस्यतीति न क्वचिद्विकल्पः शब्दो वेत्यविकल्पाभिधानं जगत् स्यात् । तथाहि-बहिरंतर्वा गृहीतमप्यगृहीतकलां क्षणक्षयलक्षणसंवेदनादिवत तथाचायातमचेतनत्वं जगत । सहस्मृतिरयुक्तैव तन्नामाक्षरमात्राणामपि क्रमशोऽध्यवसानात अन्यथा संकुला प्रतिपत्तिः स्यात् । नाम्नो नामांतरेण विनापि स्मृतौ केवलार्थव्यवसायः किं न स्यात् । तन्नामांतरपरिकल्पनायामनवस्था । तदयमशब्दं सामान्य व्यवस्यन् स्वलक्षणमपि व्यवस्येत् । भेदाभावात सामान्यवत् स्वलक्षणमध्यवस्यन्नभिलापेन योजयेत् ततो न किंचित्प्रमेयमनभिलाप्यं नाम । प्रत्यक्षस्यानभिलाप्यत्वे स्माते शब्दानुयोजनं दृष्टसामान्यव्यवसायो यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् तदिद्रियज्ञानात्सामान्यव्यवसायो न स्यात प्राशिवाजनकत्वात् तदंतरेणापि दर्शनमयं गौरिति निर्णयः स्यात अनभिलाप्यस्य विशेषस्यानुभवे कथमभिलाप्यस्य स्मृतिरत्यंतभेदात शब्दार्थयोः संबंधस्यास्वाभाविकत्वे कथमर्थमात्रं पश्यन् शब्दमनुस्मरेत् । तदर्थ वा यतोऽयं व्यवसायः । चक्षुरादिज्ञानस्य कथंचिद व्यवसायात्मकत्वाभावे दृष्टसजातीयस्मृतिर्न स्यात् । दानहिंसाविरतिचेतसः स्वर्गादिफलजननसामर्थ्यसंवेदनवत् । क्षणक्षयानुभववद्वा प्रत्यक्षेऽभिलापसंस्कारविच्छेदे कुतस्तद्विकल्पाभिलापसंयोजनं यतः सामान्यमभिलाप्यं स्यात् । नच ग्राहकप्रत्यक्षस्मृतिप्रतिभासभेदाद्विषयस्वभावभेदः सकृदेकार्थोपनिबद्धदर्शनप्रत्यासनेतरपुरुषज्ञानविषयवतं । तथा च मंदप्रतिभासिनि तत्संकेतव्यवहारनियमकल्पनायामपि कथंचिदभिधयत्वं वस्तुनः सिद्धमित्यलं प्रसंगेन । तस्मादवाच्यतकांते यदवाच्यमित्यभिधानं तदसमंजसं स्वलक्षणमनिर्देश्यमित्यादिवत् स्ववचनविरोधात् ॥ १३ ॥
. कथांचत्ते सदेवेष्टं कथञ्चिदसदेव तत् । ।
तथोभयमवच्यं च नययोगान सर्वथा ॥ १४ ॥ त्तिः कथंचित्-केन चित्प्रकारेण । ते-तव सदेव-भाव एव । इष्ट-मतमभ्युपेतम्। कथंचित्-केनचित्प्रकारेण । असदेव-अभाव एव । तत् यदेव सत् । तथा तेनैव केनचित्प्रकारेण । उभयं सदसदात्मकम् । अवाच्यमवक्तव्यम् । चकारात्कथंचिदित्यर्थः । नयस्य वक्तुरभिप्रायस्य योगो युक्तिनययोगस्तस्मान्नययोगादभिप्रायवशादित्यर्थः । न सर्वथा-सर्वकारैर्न । किमुक्तं भवति-सदसदुभयावक्तव्य वस्तु न भवति । किंतु केन चित्प्रकारेण । ___ तदेव स्वष्टयति अनवस्थां च निराकरोति उत्तरकारिकया
अपशती-नावग्रहादेरन्योन्यं स्वलक्षणविवैकैकांतो जीवांतरवत् स्वात्मन्यपि संतानभेदप्रसंगात् । अहमहमिकयात्मा विवताननुभवन्ननादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां कचिच्चित्रवित्तिक्षणे नीलादि विशेषनिर्भासवत आत्मभूतान् परस्परतो विविक्तान् सहक्रमभाविनो गुणपयार्यानात्मसात्कुर्वन् सन्नेव । तदेकत्वाभावे नीलादिविशेषनियतदर्शननानासंतानसंवेदनक्षणवाच्चित्रसंवेदनं न स्यात् । तथा क्रमवृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्यविगमकांते संततिरनेकपुरुषवत । नैरंतर्यादेरविशेषात्संतानव्यतिकरोऽपि किं न स्यात् । न हि नियामकः काश्चद्विशेषोऽन्यत्र भेदाभेदपरिणामात् असंकरे हर्षविषादादिचित्रप्रतिपत्तेरयोगात्। यका समनंतरावग्रहादिसदादिस्वभावसंकरपरिणामस्तथैव सर्वत्र चेतनाचेतनेषु संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः । अतः कथंचित्संदेवेष्टं । न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः किंतु बद्धिक्षणेपि क्वचिद्ग्राह्यग्राहकयोः सितादिनिर्भासांशपरमाणुसंवित्तयोऽपि, परस्परपरिहारस्थितिलक्षणत्वात् अन्यथा स्थूलशवलालोकनाभावात् ,तदेकांशवत् । तथाच सकलचेतनेतरक्षणपरिणामलवविशेषाः परस्परविवितात्मनस्तदन्योन्याभावमात्रं जगत् अन्यथा सर्वथैकत्वप्रसंगात् । अन्वयस्य विशेषापेक्षणादभावो वा । तदिष्टसदेव कथंचित् । न हि भावाभविकांतयोनिःपर्यायमंगीकरणं युक्तं । यथैवास्ति तथैव नास्तीति विप्रतिषे