________________
.
आप्तमीमांसा।
पुनर्गुणांतराधानमनेनं क्रमशोऽप्यनुभवतः किं विरुद्धयत क्षणस्थायिनः कस्य चिदेव ग्राह्यग्राहकाकारवैश्वरूप्यानभ्युपगमेऽपि संविदितज्ञानस्य ग्राह्यग्राहकाकारविवेकं परोक्षं विभ्राणस्य सामर्थ्यप्राप्तेः-अन्यथा शून्यसंविदोर्विप्रतिषेधात् । तदयं क्षणस्थायिकारणं स्वसत्तायां कार्य कुर्वदम्युपगच्छन् क्रमोत्पत्तिमुपरुणद्धि, सकलजगदेकक्षणवृत्तिप्रसंगात् । कारणस्य कार्यकालप्राप्तौ क्षणभंगभंगानुषंगात् । तदप्राप्नुवतस्तत्कृतौ व्यलीककल्पनाविशेषेण कूटस्थानतिशायनात् । ततः सुभाषितं कुशलाद्यसंभूतिरेकातग्रहरक्तश्विति ॥ ८ ॥
भविकांते पदार्थानामभावानामपदवात ।
सर्वात्मकमनाद्यंतमस्वरूपमतावकम् ॥ ९॥ वृत्तिः--भाव एवेति सन्नवेति एकांतः असहायधर्मग्रहो भावैकांतः । सर्वथा सत्त्वाभ्युपगम इत्यर्थः । तस्मिन्भावैकान्ते पदार्थानां । पंचविंशतितत्त्वानां चेतनाचेतनदेवमनुजपशुनारकस्तम्भकुम्भाम्भाप्रभृतीनां वा अभावानां वस्तुधर्माणां हेत्वङ्गानां विशेषणमित्यर्थः , वहुवचनाच्चत्वारोऽपि परिगृह्यन्ते अपह्नवान्निराकरणादित्यर्थः । किं स्यात् ? सर्व निरवशेषमात्मा स्वरूप यस्य तत्सर्वात्मकं विश्वमेकस्वरूपमित्यर्थः । आदिरुत्पत्तिःपूर्वस्मिन्नसत्त्वं । अंतोऽवसानं विनाशो वा आदिश्चान्तश्चाद्यंतौ तौ न विद्यते यस्य तदनाद्यन्तमनाद्यनन्तमित्यर्थः । स्वमात्मीयरूपमाकारः स्त्र आत्मैव वा रूपं स्वरूप न विद्यते तद्यस्य तदस्वरूपं । अभाव इत्यर्थः । तवेदं तावकं न तावकमतावकं । किमुक्तं भवति-पदार्थानां भावैकांताभ्युपगमे अतावकं सर्वाद्यात्मकमनाद्यनंतमस्वरूपं स्यात् कस्मात्सर्वाभावापह्नवात् ॥९॥
अथ मतं केऽभावाः, कियंता वा, कान्यनाद्यनंतानि ? कस्मादभावात् किं स्यादत आहः
अष्टशती-निष्पर्यायव्यैकांतपक्षे सर्वात्मकत्वादिदोषानुवंगः कुतः पुनर्विशेषानपह्लवीत तत्साधनव्यभिचारात् । संविनिर्भासभेदाद्भावस्वभावभेदः प्रकल्प्यते, स पुनरभेदेऽप्यात्मनः खंडशः प्रतिभासमानात् , तदन्यत्रापि विभ्रमाभावे कोशपानं विवेयं । तदेकं चक्षुरादिज्ञानप्रतिभामभेदवशाद् रूपादिव्यपदेशभाक ग्राह्यग्राहकसंवित्तिवत् । इतरेतराभावविकल्पोऽपि कथमयतार्थो न स्यात् वर्णादिविकल्पवत् । न हि वस्तुव्यतिरिक्तमसन्नाम प्रमाणस्यार्थविषयत्वात् । अभावदृष्टौ हि तदवसानकारणाभावाद्भावदर्शनमनवसरं प्राप्नोति । सकलशक्तिविरहलक्षणनिरुपाख्यस्य स्वभावकार्यादेरभावात् । कुतस्तत्प्रमिति: ? वस्तुनानात्वं बुद्धयादिकार्यनानात्वात् प्रतीयते । स्वभावाभेदेऽपि विविधकर्मता दृष्टा युगपदेकार्थोपनिबदृष्टिविषयक्षणवत् । शक्तिनानात्वे प्रसव विशेषात् स चेद्व्यभिचारी? तस्तद्गतिः । केवलमविद्यास्वभावदशकालावस्थाभेदेनात्मनि परत्र चासतः स्वयमसता मिथ्याव्यवहारपदवीमुपनयति-यतः क्षणभंगिनो भिन्नसंततयः स्कंधा विकल्प्येरन् । अन्यथा चेति प्रतिभासकार्याद्यभेदेऽपि कस्य चिदेकत्वं प्रसाधयतीति साध्यसाधनयोरभेदे किं केन कृतं स्यात् ? पक्षविपक्षादेरभावात् । न क्वचिदसाधना साध्यसिद्धिरतिप्रसंगात् ॥ २ ॥
कार्यद्रव्यमनादि स्यात्यागभावस्य निहवे। .
. प्रध्वंसस्य च धर्मस्य प्रच्यवेऽनंततां ब्रजेत् ॥ १०॥ वृत्तिः-कार्यं च द्रव्यं च कार्यद्रव्यं वस्त्वन्यथाभावः, घटादिकं । क्रियत इति कार्यम् । अवस्थान्तरं द्रवति गच्छतीति द्रव्यम् । अनाद्यनंतसर्वकालैकस्वरूपं नित्यमादिरहितं स्याद्भवेत् । प्राक् पूर्वस्मिन्नभावः असत्त्वं प्रागभावः । मृत्पिण्डे घटस्यासत्त्वमित्यर्थः । तस्य प्रागभावस्य निहवे विलोपे निराकरणे । प्रध्वंसस्य च विनाशस्य च घटस्य कपालनाशादय इत्यर्थः । धर्मस्य-विशेषस्य गुणस्य प्रच्यवे अभाव निराकरण | अनंतस्य भावोऽनंतता तामनंततामपयर्वसानं सर्वकालकार्यमिति संबंधनीयम् | ब्रजेत् गच्छेत् । किमुक्तं भवति-प्रागभावस्य निहवो यदि स्यात्कार्यद्रव्यमनादि स्यात् । प्रध्वंसाभावास्याभावस्य चाभावे तदेव कार्यद्रव्यमनंततां ब्रजेत् ॥ १०॥
तृतीयचतुर्थाभावस्वरूपं तदभावे च यद्भवति