________________
सनातन जैन ग्रंथमालायां
अत्यक्षश्च स्युः किं व्याहन्यत इति समानमग्न्यादीनां तथा चानुमानोच्छेदः स्यात् । तदभ्युपगमे - अस्वसंवेद्यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतयेति न किंचिदेतत्तया नैतत्तया वा यमभ्युपगंतुमर्हति । तदेवं प्रमेयत्वसत्त्वादिर्हेतुलक्षणं पुष्णाति तं कथं चेतनः प्रतिषेद्धुमर्हति संशयितुं वा । धर्मिण्य सिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानैकांतिकत्वात् कथं सकलविदि सत्त्वासिद्धि: ? इति ब्रुवन्नपि देवानांप्रियः- तद्धर्मिस्वभाव न लक्षयति । शब्दानित्यत्वसाधनेपि कृतकत्वादावयं विकल्पः किं न स्यात् ? । विमत्यधिकरणभावापन्नविनाशधर्मिधर्मत्वे कार्यत्वादेरसंभवद्बाधकत्वादेरपि संदिग्धसद्भावधर्मधर्मत्वं सिद्धं बोद्धव्यं । यदि विप्रकृष्टार्थप्रत्यक्षत्वमर्हतः साध्येत पक्षदोषः - अप्रसिद्ध विशेषणत्वं तत एव. व्याप्तिर्न सिद्ध्येत् । अनर्हतश्चेत्-अनिष्टानुषंगोऽपि कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण, यस्य विवक्षितार्थप्रत्यक्षत्वं ? इत्येतद्विकल्पजालं शब्दनित्यत्वेऽपि समानं न केवलं सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधने संशीतौ वा, तदयमनुमानमुद्रां भिनत्ति । वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति ? | स्यादप्रसिद्ध विशेषणः पक्षः । इतरथाऽनिष्टानुः षंगः । कीदृक् पुनः सामान्यं नाम यदुभयदोषपरिहाराय प्रकल्प्येत, सर्वगतसाधनेऽपि समानं अविवक्षितविशेषस्य पक्षीकरणे समः समाधिः, इत्यलमप्रतिष्ठितमिथ्याविकल्पोपाधेः ॥ ५ ॥
स त्वमेवासि निर्दोष युक्तिशास्त्राविरोधिवाक् । अविरोधो यदिष्टं ते प्रसिद्धेन न वाध्यते ॥ ६॥
वृत्तिः-स (Ìर्वप्रकान्तः तच्छन्दः) पूर्वप्रक्रान्तपरामर्शी त्वमेव भवानेव नान्यः । अन्ययोगव्यनच्छेदफल एवकारः । असि भवसि । निर्दो: - अविद्यारागादिविरहितः क्षुधादिविरहितौ वा अनंतज्ञानादिसंबंधेन इत्यर्थः ? कुत एतत् । युक्तिशास्त्राविरोधिवाक् यतः । युक्तिः - अनुमानं न्यायः तैत्सहचरितं मध्यक्षमपि । शास्त्र आगमः स्याद्वादः ताभ्यां अविरो धनी अविसंवादिनी वाक् वाणी वचनं यस्यासौ युक्तिशास्त्राविरोधिवाक् । बहिर्व्याप्तिमंतरेणांतर्व्याप्या सिद्धं । यतः इयमेवान्यत्रापि प्रधाना । ननु वचन स्याऽविरोधः कुतः यावता यत्र वचनं तत्र विरोधो दृश्यते ? अत आह अविरोधः अविसंवादः । यत्-यस्मात् । इष्टं - मतं प्रवचनं । कुतो वीतरागस्य इच्छा ? उपचारेण, सयोगिध्यानवत् । इष्टशब्दस्यापि जहत्स्वार्थे वृत्तित्वात् कुशलशब्दवत् । ते तत्र । प्रसिद्धेन परमतापेक्षं विशेषणमेतत् ( परमतेन ) अनेकांतवस्तुत्वेन । अथवा व्यवहिताव्यवहितप्रसिद्धलक्षणवता प्रमाणेन । न अन्यथा न क्रियते, तेनैव स्वरूपेण दृश्यत इत्यर्थः । किमुक्तं भवति - यो निर्दोषो विप्रकृष्टदर्शी सच त्वमेव भवसि । न्यायागमाविसंवादिवचनं । यतः अविरोधोऽपि तव मतं न बाध्यते प्रसिद्धेन यस्मात् ।
ननु भो वत्स मदीयं मतं न बाध्यते अन्येषां किं बाध्यते ? अत आह—
विप्रकर्ष्यपि भिन्नलक्षणसंबंधित्वादिना कस्य चित्प्रयक्षं । सोऽत्र भवान्नहन्नेव — अन्येषां न्यायागम विरुद्धभाषित्वात् । विचित्रभिसंबंधितया व्यापारव्याहारादिसांकर्येण क्वचिदतिशयानिर्णये कैमर्थक्याद्विशेषेष्टिः ? ज्ञानवतोऽपि विसंवादात् क पुनराश्वासं लभेमहि ? 1 नचैवं वादिनः किंचिदनुमानं नाम निरभिसंधीनामपि बहुलं कार्यस्वभावाऽनियमोपभात् । सति काष्ठादिसामिग्रीविशेषे कचिर्दुपलब्धस्य तदभावे प्रायशोऽनुपलब्धस्य मह्ण्यादिकारणकलापेऽपि संभवात् । यज्जातीयो यतः संप्रेक्षितस्तज्जातीयात्तादृगिति दुर्लभनियमितायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमित्र निर्णीयेत ! | वृक्षः शिंशपात्वात् इति
२ विज्ञानं मस्व संबंधं भूतपरिणामित्वा पित्तादिवत् ।
२ मुद्रितपुस्तकेऽयमधिकः पाठः । ३ सहोच्चरितमित्यपि पाठः । ४ अभिप्रायतया । ५ वचनादि । ६ अग्नेः । ७ अग्नेः । ८ सूर्यकांतमण्यादेः ।