________________
सनातन जैनग्रंथमालाया किमुक्तं स्यात् । न सर्वेषामाप्तता परस्परविरोधात्समयानामागमानां । एकोऽपि न भवति प्रमाणाभाअत् । अतः केन चिदेव भवितव्यं । एवमत्यन्ताभावाभावः कृतः । यदि परस्परविरोधात्सर्वज्ञत्वभावो न भवति तर्हि येषां सर्वज्ञविच्छेदकः संप्रदायस्तेषामाप्तता स्यात् ? अत आह-तीर्थकृदित्यादि । तीर्थ सर्वज्ञं कृतंति. छिंदंति इति तीर्थकृतः समया आम्नायाः सम्प्रदाया येषां ते तीर्थकृत्समयास्तेषां अन्योऽन्यविरोधात् । सर्वे निरवशेष अवगतं अगम्यावगमनं वा इच्छंति अभ्युपगच्छंति इति सर्वेषः तेषां सर्वेषां आप्तता परमार्थवादित्वं नास्ति न विद्यते । अतः कः आत्मजीवः चिच्चतनोऽचेतनों भवत्येव । एवकारः अवधारणार्थः ।।. भवं संसारं यांति गच्छंति इति भवेतः तेषां भवेतां शक्रचक्रधरादीनामित्यर्थः । गुरुर्नाथः । भवेद्गुरुः भवेतां गुरुः। न च लब्धात्मस्वरूपाणां । किमुक्तं भवति-तीर्थकृच्छेदकाम्नायानामपि सर्वमेकेन प्रमाणेन. षड्भिरभ्युपगच्छतां आप्तता नास्ति परस्परविरोधात् । अतो तिपतिरेव स्यान्नान्यः ॥ ३ ॥
पूर्वकारिकोपात्तमर्थ समर्थयन्सुपुष्कलहेतुमाह--
अष्टशती-न हि तीर्थकरत्वमाप्ततां साधयति शक्रादिष्वसभवि, सुग़तादिषु दर्शनात् । न च सर्वे सर्वदर्शिनः: परस्परविरुद्धसमयाभिधायिनः । ततोऽनैकांतिको हेतु: । अत एव न कश्चित् सर्वज्ञः-इत्ययुक्तं श्रुतेरविशेषादप्रमाणतोपत्तेः । तथेष्टत्वाददोष इत्येकेषामप्रामाणिकैवेष्टिः, न खलु प्रत्यक्ष सर्वज्ञप्रमाणांतराभावविषय अतिप्रसंगात् । नानुमानमसिद्धेः । प्रमाणतः सिद्ध नानात्मसिद्धं नाम-अन्यथा परस्यापि न सिद्धयेत् । तदिमे. स्त्रयमेकेन प्रमाणेन सर्व सर्वज्ञरहितं पुरुषसमूहं संविदतः एवात्मानं निरस्यंतीति व्याहतेमतत् । तीर्थच्छेदसंप्रदायानां तथ सर्वमवगतमिच्छतामाप्तता नास्ति परस्परविरुद्धाभिधानात् । एकानेकप्रमाणवादिनां स्वप्रमान्यावृत्तेरन्यथानकांतिकत्वात् । सर्वप्रमाणविनिवृत्तरितरथासंप्रतिपत्तेः । वागक्षबुद्धीच्छापुरुषत्वादिकं कचिदनाविलज्ञानं निराकरोति न पुनस्तत्प्रतिषेधवादिषु तथेत्ति परमगहनमेतत् । तदित्थं सिद्धं सुनिश्चितासंभवद्बाधकप्रमाणत्वं । तेन कः परमात्मा? चिदेव लब्ध्युपयोगसंस्काराणामावरणनिबंधनानामत्यये भवभूतां प्रभुः, न हि सर्वज्ञस्य निराकृतेः प्राक सुनिश्चितासंभवसाधकप्रमाणत्वं सिद्धं येन परः प्रत्यवतिष्ठेत । नापि. बाधकासंभवात्, परं प्रत्यक्षादेरपि विश्वासनिबंधनमस्ति तत्प्रकृतेऽपि सिद्ध, यदि तत्सत्तां न साधयत् सर्व त्राप्यविशेषात् । तदभावे दर्शनं नादर्शनमातशेतेऽनाश्वासाद्विभ्रमवत्।साधकबाधकप्रमाणयोर्निर्णयाद्भावाभावयोरविप्रतिपत्तिरनिर्णयादारेका स्यात् । न खलु ज्ञस्वभावस्य कश्चिदगोचरोऽस्ति यन्न क्रमेत तत्स्वभावांतरप्रतिषेघात् । चेतनस्य सतः संबंध्यतरं माहोदयकारणकं मदिरादिवत् ,तदभावे साकल्येन विरतमोहः सर्वं पश्यति. प्रत्यासत्तिविप्रकर्षयोरकिंचित्करत्वात् अत एवाक्षानपेक्षा । अजनादिसंस्कृतचक्षुषो यथालोकानपेक्षा ॥३॥
दोषावरणयोहानिनिःशेषाऽन्त्यतिशायनात् ।
कचिद्यथा स्वहेतुभ्यो बहिरंतमेलक्षयः ॥४॥ वृत्तिः-दोषः अज्ञानादि, कार्यरूपं । आवरणं कारणभूतं कर्म । अथवा मोहांतराया दोषाः ।। ज्ञानदर्शनावरणे आवरणं। तथोर्हानिर्विनाशो विश्लेषो दोषावरणयोर्हानिः । सिद्धसाधनतानिराकरणार्थ निशेषा समस्ता समूलतलप्रहाणिः इत्युक्तं। अस्ति भवति । अतिशायनात् प्रकृभ्यमाणाज्ञानहानेः पूर्वावस्थातिरेकात् । कचित् कस्मिंश्चित्पुरुषविशेषे । यथा शब्दो दृष्टान्तप्रदर्शनफलः । स्वस्य आत्मनो हेतवः कारणानि ते तथाभूतास्तेभ्यः खहेतुभ्यः । बहिः किट्टकादिकं, अभ्यतरं कालिमादि तच्च तन्मलं च तस्य
१ भवितव्यमेवात्यंताभावाभावः कृतः:पाठोऽयं लिखितपुस्तके । २लिखित पुस्तके नचालब्धात्मस्वरूपाणामिति पाठः। ३ चाबीकानां । ४ जैनस्यापि । ५वैनायकानां । . ६ अर्यग्रहणशक्तिलब्धिः अर्थग्रहणव्यापार - उपयोगः। ७मीमांसकः। -सिद्धसाध्यतेति.लिखितपुस्तकं पाठः।