SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ नमः सिद्धभ्यः ।। ७ श्रीमद्भगवत्समंतभद्रस्वामिविरचिता आप्तमीमांसा। देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यंते नातस्त्वमसि नो महान् ॥ १॥ वृत्तिः-सार्वश्रीकुलभूषणं क्षतरिपुं सर्वार्थसंसाधनं सन्नीतेरकलंकभावविधृतेः संस्कारकं सत्पथं । निष्णातं नयसागरे यतिपतिं ज्ञानांशुसद्भास्करं भेत्तारं वसुपालभावतमसो वंदामहे बुद्धये ॥ १ ॥ लक्ष्मीभृत्परमं निरुक्तिनिरतं निर्वाणसौख्यप्रदं कुज्ञानातपवारणाय विधृतं छत्रं यथा भासुरं ।। सज्ज्ञानैर्नययुक्तिमौक्तिकफलैः संशोभमानं परं वंदे तद्धतकालदोषममलं सामंतभद्रं मतं ॥२॥ समीचीनासमीचीनोपदेशविशेषप्रतिपत्तये सकलदोषातीतानंतचतुष्टयसमेतप्रकटिताशेषद्रव्यपर्यायसामान्याविशेषपरमात्मपरीक्षाभिधायकं, असंख्यातगुणश्रेणिकर्मनिर्जरणोपायं निराकृतसामान्यापोहशब्दार्थगृहीतविद्वन्मनःसंतोषकरं परमार्थभूतवाच्यवाचकसंबंधमनेकसूक्ष्मार्थप्रतिपादनचटुलं निःश्रेयसाभ्युदयसुखफल स्वभक्तिसंभारप्रेक्षापूर्वकारित्वलक्षणप्रयोजनवद् गुणस्तवं कर्तुकामः श्रीमत्समंतभद्राचार्यः सर्वज्ञ प्रत्यक्षीकृत्यैवमाचष्टे-हे भट्टारक ! संस्तवो नाम माहात्म्यस्याधिक्यकथनं, त्वदीयं च माहात्म्यमतींद्रियं मम प्रत्यक्षागोचरं-अतः कथं मया स्तूयसे ?। अत आह भगवान् ‘ननु भो वत्स! यथाऽन्ये देवागमादिहेतार्मम माहात्म्यमवबुध्य स्तवं कुर्वन्ति तथा त्वं किमिति न कुरुषे । अत आह,-अस्माद्धेतोर्न महान् भवान् मां प्रति' व्यभिचारित्वादस्य हेतोः । इति व्यभिचारं दर्शयति देवास्त्रिदशास्तेषां स्वर्गावतरण-जन्म-निष्क्रमण केवलज्ञानोत्पत्ति-मुक्तिगमनस्थानेषु आगमनं-आगमः अवतारः-देवागमः । नभसि गगने हेममयाम्भोजोपरि यानं नभोयानम् । चामराणि वातायनानि तानि आदिर्यासां विभूतीनां संपदां लाश्च ता विभूतयश्च चामरादिविभूतयः। आदिशब्देन अशोकवृक्षसुरदुंदुभि सिंहासनादीनि परिगृह्यते, एतेषां द्वंद्वः । विभूतयः । मायाविष्वपि इन्द्रजालेष्वपि दृश्यते । न अतः--न अस्मात् । त्वमसि--त्वं भवसि । नः--अस्माकं महान्--गुरुः । किमुक्तं भवति । देवागमादिहेतो स्मा भवान्गुरुर्भवति। यतो देवगगमादयः, पूरणादिष्वपि दृश्यते । अतोऽनैकांतिको हेतुः ॥ १ ॥ ___ अथ मतम् । अयं तर्हि हेतुर्बहिरंतरंगलक्षणो महोदयः पूरणादिष्वससंभवी इत्ययमपि व्यभिचारी, तथैव प्रतिपादयतिअष्टशती-उद्दीपीकृतधर्मतीर्थमच लज्योतिर्बलत्केवलालोकालेकतलेोकलाकमीखलैरिंद्रादिभिर्वदितं ॥
SR No.090055
Book TitleAptamimansa Pramanpariksha
Original Sutra AuthorSamantbhadracharya, Vidyanandswami
AuthorGajadharlal Jain
PublisherBharatiya Jain Siddhant Prakashini Sanstha
Publication Year1914
Total Pages90
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Epistemology
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy