________________
॥ श्रीः॥ जैनागमवारिधि- जैनधर्मदिवाकर-जैनाचार्य-पूज्य-श्री आत्मारामजीमहाराजनां पश्चनद-(पंजाब)स्थानामनुत्तरोपपातिकसूत्राणा
मर्थबोधिनीनामकटीकायामिदम्
सम्मतिपत्रम्. आचार्यवयः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकमूत्राणामर्थबोधिनीनाम्नी संस्कृतवृत्तिरुपयोगपूर्वकं सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इयं हि वृत्तिर्मुनिवरस्य वैदुष्यं प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान् स्पष्टयितुं यः प्रयत्नो व्यधायि तदर्थमनेकशो धन्यवादानहन्ति ते । यथा चेयं वृत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदममीप्सुभिनिर्वाणपदमनुसरद्भिर्ज्ञान-दर्शन-चारित्रेषु प्रयतमानैमुनिभिः श्रावकैश्च ज्ञानदर्शन-चारित्राणि सम्यक् सम्प्राप्याऽन्येऽप्यास्मानस्तत्र प्रवर्तयिष्यन्ते । ___ आशासे श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुषां विदुषां मनस्तोषाय जैनागममूत्राणां सारावबोधाय च अन्येषामपि जैनागमानामित्थं सरलाः मुस्पष्टाश्च वृत्तीविधाय तांस्तान् सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति ।
अन्ते च "मुनिवरस्य परिश्रमं सफलयितुं सरलां सुबोधिनी चेमां भूत्रवृत्ति स्वाध्यायेन सनाथयिष्यन्त्यवश्यं सुयोग्या हसनिभाः पाठकाः ।" इत्याशास्तेविक्रमाब्द २००२ ॥ श्रावणकृष्णा पतिपदा
उपाध्याय आत्मारामो जैनमुनिः । लुधियाना. ऐसेही:
मध्यभारत सैलाना-निवासी श्रीमान् रतनलालजी डोसी श्रमणोपासक जैन लिखते हैं कि :
श्रीमान की की हुई टीकावाला उपासकदशांग सेवक के दृष्टिगत हुवा, सेवक अभी उसका मनन कर रहा है यह ग्रन्थ सर्वांगसुन्दर एवम् उच्चकोटि का उपकारक है।