________________ * शीरुतुजामरिविरस्थित श्रीनाकशजायरितम् / English - Thus when Pundarik was told by Lord Yugadi about the fruit, one can obtain when one, wholeheartedly serves the mount, he atonce processed the act of service and care, with utmost devotion and thus attained Salvation due-course. . प्राप्ते शिवं श्रीऋषभे सतोऽस्य शत्रुजये श्रीभरताख्यचक्री॥ अतिष्ठिपत् रत्नमयीं सुवर्णप्रासादमध्ये प्रतिमां तदीयाम् // 25 // अन्यय:- श्रीऋषभे शिवं प्राप्ते अस्य सुत: श्रीभरताख्य: चक्री शत्रुअये सुवर्णप्रासादमध्ये तदीयां रत्नमयी प्रतिमा अतिष्ठिपत्॥२५॥ विवरणम:- श्रीऋषभे शिवं मोक्ष प्राप्ते सति अस्य श्रीऋषभस्य सुतः पुत्रः श्रिया युत: भरत: श्रीभरतः श्रीभरत: आख्या नाम यस्य स: श्रीभरताख्य: श्रीभरतनामा चक्री चक्रमस्यास्तीति, चक्रवर्ती नृपः शत्रुञ्जये शत्रुञ्जयगिरौ सुवर्णस्य प्रासाद: सुवर्णप्रासादः। सुवर्णप्रासादस्य मध्ये सुवर्णमन्दिरस्य मध्ये तस्येयम् तदीया तां तदीयां, (तस्य) रत्नानि प्रचुराणि यस्यां सा रत्नमयी तां रत्नमयी प्रतिमां मूर्तिमतिष्ठिपत् अस्थापयत् // 25 // सरलार्थ:- श्रीऋषभे मोक्षं गते तस्य पुत्रः श्रीभरतचक्रवर्ती शत्रुअवगिरी सुवर्णमन्दिरमध्ये तदीयां रत्नमदी मूर्तिमस्थापयत्॥२५॥ ગુજરાતી:- શ્રી ભદેવ પ્રભુ મોક્ષ ગયા બાદ તેમના પુત્ર શ્રી ભરતચકવતીએ શ્રી શત્રુંજયતીર્થ ઉપર સુવર્ણપ્રાસાદમાં પ્રભુની रत्नमय प्रतिमा स्थापन.॥२५॥ हिन्दी :- श्री ऋषभदेव प्रभु के मोक्ष में जाने के बाद उनके पुत्र श्रीभरतचक्रवर्तीने श्रीशत्रुजय तीर्थ पर सुवर्णप्रासाद में उन प्रभु की रत्नमयी प्रतिमा की स्थापना की||२५|| मराठी :- श्री ऋषभदेव प्रभु मोक्षांत गेल्यानंतर पुत्र श्री भरतचक्रवतीने श्रीशत्रुजव तीर्थावर सुवर्णप्रासादामध्ये प्रभुची रत्नमवी प्रतिमेची स्थापना केली.॥२५॥ English - After Lord Rishabhdev had attained Salvation his son Shri Bharat Chakravarty constructed a temple of gold and installed a statue of Lord Rishabhdev, made of gems and precious stones. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust