________________ | श्रीमेकतुशिविरचित शीनामाकराजारितम् / अथान्तरायविच्छित्त्ये पारणाहेऽप्युपोषितः॥ ईषन्निन्द्रां गतो यावज्जागर्ति स निशात्यये॥२३८॥ तावदीक्ष्य महारण्ये, पतितं स्वं व्यचिन्तयत्॥ हा हा! कथं स एवाऽय-मन्तराय: समापतत् // 239 // अन्वयः अथ अन्तरायविच्छित्त्यै पारणाहे अपि उपोषित: ईषन्निद्रां गत: स: निशात्यये यावत् जागति।।२३८॥ तावत् स्वं महारपये पतितं वीक्ष्य व्यचिन्तयत् - हा हा! कथं स एव अयम् अन्तराय: समापतत् // 239 // विवरणम्:- अथ अनन्तरम् अन्तरायस्य विच्छित्ति: अन्तरायविच्छित्तिः, तस्यै अन्तरायविच्छित्त्यै-अन्तरायनाशाय पारणस्य अह: पारणाहं, तस्मिन् पारणाहे पारणादिने अपि उपोषित: उपवासंकृतवान् रात्रौ धर्मज्ञानपूर्वकं सुप्तः ईषत् किंचित् निद्रांगत: स: निशाया: अत्यय: निशात्ययः तस्मिन् निशात्यये रजन्यवसाने यावत् जागर्ति प्रबुध्यतो॥२३८॥ तावत् स्वमात्मानं महत्च तद् अरण्यं च महारण्यं तस्मिन् महारण्ये पतितं वीक्ष्य दृष्ट्वा व्यचिन्तयत् - व्यचारयत् - हा हा। अरेरे। स एव गुरुणा कथितः एव अयम् अन्तराय: समापतत् आजगाम // 23 // सरलार्थ:- अनन्तरमन्तरायकर्मण: विच्छित्त्यै पारणदिनेऽपि उपवासं कृत्वा धर्मप्यानलीनः रात्री सुप्तः किश्चित् निद्रां प्राप्य निशावा: अवसाने स यावत् जागर्ति प्रबुप्यते----||२३८॥ तावत् आत्मानं महारण्ये पतितम् अवलोक्य स: व्यचिन्तयत् - अरेरे। सः एव गुरुणा कपितः एव अयम् अन्तरायः समायीत् // 239|| ગુજરાતી:- ત્યારબાદ અંતરાય કર્મનો વિચ્છેદ કરવા માટે રાજાએ પારણાને દિવસે પણ ઉપવાસ કર્યો. અને ધર્મધ્યાનપૂર્વક સુઈ ગયો. થોડી નિદ્રા કરી રાત્રિના છેલ્લે પહોરે જોવામાં જાગે છે,.૨૩૮ તેવામાં પોતાને એક મોટી વિકટ પરિસ્થિતિમાં અટવાઈ પડેલો જોઇવિચારવા લાગ્યો કે, “અરેરે! શું મને ગુરુમહારાજે જે અન્તરાય કર્મ કહ્યું હતું તેજ કર્મ ઉદયમાં આવી પડ્યું?"u૨૩લા. KEEEEEE/222] ** * सा