________________ शीशकतुसूरिविरणित श्रीनामाकराजाचरितम् स्थापयित्वा गुरूंस्तत्र जग्राहाभिग्रहानिति॥ यावद् यात्रां विधायात्रायामि तावत् क्षितौ शये // 20 // - अब्रह्म दधिदुग्धेच वर्जयामि क्रमादिदम्॥ तीर्थ-ब्रह्माऽपत्यहत्याशुद्ध्यै मेऽभिग्रहत्रिकम् // 205 // परस्त्री मांस-मधेच, यावज्जीवमत: परम्॥ व्यक्तानि नियमा एते, स्त्री- गोहत्याविमुक्तये॥२०६॥ अन्वय:- तत्र गुरून् स्थापयित्वा तीर्थ-ब्रह्मापत्यहत्याशुद्ध्यै क्रमात् इति अभिग्रहान् जग्राह - // 20 // यावद् यात्रां विधाय अहमत्र आयामि तावत् क्षितौ शये, अब्रह्म वर्जयामिा दधिदुग्धे वर्जयामिा क्रमात् मे अभिग्रहत्रिकम् अस्ति // 205 // स्त्रीगोहत्याविमुक्तये अत: परं यावज्जीवं परस्त्रीमांसमधे च व्यक्तानि। एते मम नियमा: सन्ति। 206 // विवरणम्:- तत्र तस्मिन् नगरेगुरून श्रीयुगन्धरसूरीन् स्थापयित्वास:तीर्थहत्याच ब्रह्महत्याचअपत्यहत्याच तीर्थब्रह्मापत्यहत्या:। तीर्थब्रह्मापत्यहत्यानां शुद्ध्यै क्रमात् इति वक्ष्यमाणान् अभिग्रहान् जग्राह॥२०॥ तीर्थहत्याशुद्धिकृते. यावत् अहं यात्रां विधाय अत्र आयामि आगच्छामि तावत् क्षितौ भूमौ शये स्वपिमिान ब्रह्म अब्रह्म मैथुनं वर्जयामि ब्रह्महत्याशुद्धिकृते दधि वर्जयामि त्यजामि। अपत्यहत्याशुद्धिहेतोः-दुग्धं वर्जयामित्यजामिा क्रमात् में मम इदं अभिग्रहाणाम् त्रिकम् अभिग्रहत्रिकमासीत् // 205 // स्त्रीचगौश्च स्त्रीगावौ। स्त्रीगवो: हत्या स्त्रीगोहत्या स्त्रीगोहत्याया: विमुक्तिः स्त्रीगोहत्याविमुक्तिः तस्यै स्त्रीगोहत्याविमुक्तये अतः परम् क्रमेण यावत् जीवामि तावत् यावज्जीवं परस्य स्त्री परस्त्री तां परस्त्रियं त्यजामिा (स्त्रीहत्याविमुक्तये इत्यर्थः। गोहत्याविमुक्तये च यावज्जीवं मांसं च मधं च मांसमधे त्यजामिा एते मम नियमाः सन्तिा॥२०६॥ PP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust