________________ -- मेतार्य 4 // नEिERHITEREDEI मि | भूमौ पतितौ, एवं तौ निजबांधवौ निश्चेतन्यौ पतितौ दृष्ट्वा पीडितो राजा दध्यौ, अरेरे! यदि मातैव चरित्रम . | पुत्राय विषं ददाति, तदात्र नूनं केनापि बलवता कारणेन भवितव्यं. ततोऽसौ तत्क्षणं विषोत्तारमणिमानाय्य तत्क्षालनपानीयं तयोः पाययामास, तत्क्षणमेव तौ विषापहारात्सचेतनौ जातो. अथ राजा दासी // 4 // पृष्ट्वा तत्र विषप्रक्षेपस्वरूपं विज्ञाय द्रुतमंतःपुरे समागत्य तां विमातरंप्रति प्राह, धिक् त्वां या त्वमेवंविधं / a दुष्टाचरणं मम मृत्यवेऽकार्षीः, परं त्वया रचितमिदं दुष्टाचरणं तव पुत्रयोरुपयेव पतितं, मया तु द्रुतं म|| णिक्षालनपानीयेन तौ प्रगुणीकृतो. किंच मम तु पुरापि राज्येच्छा नाभूत्, केवलं त्वदुपरोधादेव मयेयa कालं राज्यं कृतं. अथ राज्येनाहं किं करोमि? यत्रैवंविधा पापनिबंधिनी श्वभद्रायिनी बुद्धिर्जायते. इ. त्युक्त्वा वात्सल्यात् स सागरचंद्रो राजा प्रियदर्शनाया वृद्धाय गुणचन्द्रपुत्राय राज्यं दत्वा संयम जग्रं क्रमात स एकादशांगपारीणो बभूव. अथैकदा तेन सागरचन्द्रर्षिणाऽवंतीस्वरूपं पृष्टः कश्चित्पुरुषो जगौ, तत्र मुनिचंद्रनृपस्य सौवस्तिकाख्यः पुत्रः पुरोहितपुत्रयुतः साधूनां पीडामुत्पादयति. तन्निशम्य दूनः स सागरचन्ीषर्गुरुमापृच्छय स्वयमवंत्यामगात, साधूनामुपाश्रये च स्थितः, तंतो मध्याह्ने भ्रातृसुतप्रतिबोध बन का गिनिनि नपान ELENayat fataliate lalane Meam ME C.Gunratnasuri M.S. Jun Gun Aaradha )