________________ e e चरित्रम // 8 // I प्रभवः प्राह हे जम्बू ! तवैतत्प्रथमं पुण्यं यन्मम जीवितदानं दत्तं, ममायं च परिवारो यदि बन्धान्मोक्षं प्रामोति, जंबकमार तदाहमपि तव सार्थे चारित्रं गृहीष्यामीति निश्चयं श्रुत्वा समुद्रश्रीनामा प्रथमस्त्री भणति, हे प्रभव ! भवादृशां दुःक- कारिणां चारित्रं घटते, दुःखीनः सुखापेक्षया चारित्रं गृह्णति, परन्तु सुखिनां संयमकष्टमनिष्टं, प्रायेण लोकाः // 8 // परगृहभंजका भवंति, हे प्रभव यदि तव कथनादयं व्रतं गृहीष्यति, तर्हि हालिकस्येव स पश्चात्तापं प्राप्स्यति. प्रभवे णोक्तं कोऽयं हालिक ? समुद्रश्रीः कथयतिo मरुमंडले बगनामा पामरो वसति, स कृषिकर्म करोति, कोद्रवकंगुप्रमुखं धान्यं च वपति, स एकदा पुत्र्याः श्व शुरगृहे गतः, स तत्र मिष्टैर्गुडमंडकैौजितः, स इक्षुतो गुडोत्पत्तिं ज्ञात्वा स्वगृहे समागत्य पुष्पितं फलितं क्षेत्रमुन्मूल्यक्षुखन्डं वपतिस्म. स्त्रिया वारितोऽपि न स्थितः, आत्ममतिको जातः, ईक्षुक्षेत्रं तु न निष्पन्नं, पुरातनमपि धान्य गतं, मनसि पश्चात्तापं कृतवान, मिष्टभोजनांशया पूरातनमपि गतं तद्वत्. हे प्राणवल्लभ ! त्वमपि पश्चात्तापं प्राप्स्यसि, प्राप्त सुखं मुक्त्वाधिकस्य वांछा न कर्त्तव्या. // इति बगपामरदृष्टांतः // 4 // जम्बूकुमारः कथयति हे प्रिये यत्त्वयोक्तं तत्सत्यं, परं ये ऐहिकसुखाभिलाषिणस्ते दुःखं प्राप्नुवन्ति, ज्ञानात्परं धनं न, समतासदृशं सुखं न, जीवितसममाशीर्वचनं न, लोभसदृशं दुःखं न आशासदृशं बन्धनं न, स्त्रीसदृशं च जालबन्धनं न वर्तते, यस्तासु स्त्रीब्वतीवलोभवान् स वायस इवानर्थ प्रामोति. स्त्रिया पृष्टं कोऽयं वायसः ? जम्बूकुमारः कथयति___ भृगुकच्छे रेवानदीतीरे एको गजो मृतः, तंत्र बहवः काका मिलिताः सन्ति, गमनागमनं च कुर्वति, यथा सत्र seese SENSEBSeee P.P. A r atnasur M.S. Jun Gun Aaradhy