SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जंबूकुमार // 17 // rele@@@@@@@ER भिरुक्तं, स्वामिन् दुष्करं व्रतपालन, अनुपमोऽयं वैराग्यरसा, यैरयं सम्यगाराधितस्तैर्मुक्तिपदमलंकृतमिति स्त्रीभिरपि जम्बूवचः प्रमाणीकृतं / तस्मिन्नवसरे प्रभवेणोक्तं मदीय महद्भाग्यं यच्चौरेणापि मया वैराग्यवार्ता श्रुता. विषमोयंका चरित्रम् विषयाभिलाषः, दुस्त्यजोऽयं विषयरागः, धन्यस्त्वं येन तारुण्येऽपींद्रियाणि वशीकृतानि. जम्बूकुमारेणापि तदुद्धाराय बहवो धर्मोपदेशा दनाः, वैराग्यवासितेन प्रभवचौरेणोक्तं त्वं महान् ममोपकारकर्ता, अहमपि त्वया सार्दै व्रत का गृहीष्यामि. प्रातःकालो जातः. कोणिकेन राज्ञा तत् श्रुतं, कोगिकेनापि बहवो रक्षणोपायाः कृताः, परन्तु जम्बूकुमारेण मनसि न धारिताः, पश्चात्प्रातः समहोत्सव सप्तक्षेत्र्यां वित्तं वितीर्य कृतकोणिकनृपोत्सवः प्रभवादिपञ्चशतीपरिकलितो निजजनकजननीसहितः प्रमदाभिरनुश्रितो निजश्वशुरश्वश्रूसंयुतः श्रीसुधर्मस्वामिनः समीपे चारित्रं, जग्राह. अनुक्रमेणाधीतद्वादशांगीकश्चतुर्दशपूर्वधारी चतुर्ज्ञानसहितः स श्रीसुधर्मस्वामिपभूषण जातो, घातिकर्मक्षयात्केवलमवाप्य मुक्तिकामिनीकंठालंकारहारः सञ्जातः, धन्योऽयं सुरराजराजमहितः श्रीजम्बूनामा मुनि-स्तारुण्येऽपि पवित्ररूपकलितो यो निजिगाय स्मरं // त्यक्त्वा मोहनिबन्धनं निजवधुसम्बन्धमत्यादरा-मुक्तिस्त्रीवरसंगमोद्भवसुखं लेभे मुदा शाश्वतं // 1 // एवं जम्बूसदृशः क्षणभंगुरं विषसुखं त्यक्त्वा शाश्वत एव सुखे रमंते, तत्प्रत्ययेन प्रभवसदृशा अपि सुलभबोधिनः संसारांबुधिपारगा भवन्तीति. // इति श्रीजम्बूकुमारचरित्रं सम्पूर्ण // deed SSC P. P inatnasuri MS Jun Gun Aaradhat
SR No.036443
Book TitleJambu Kumar Charitra
Original Sutra AuthorN/A
AuthorDharmdas Gani
PublisherShravak Hiralal Hansraj
Publication Year1934
Total Pages19
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy