________________ टीका धर्मः | दनं // 1 // सर्वकर्मविनिर्मुक्तं / सर्वलोकैकनास्करं / सर्वामरनद्यं / वंदे वीरं जिनेश्वरं // 2 // अन्यानपि नमस्यामि / श्रीमतस्तीर्थनायकान् // सिमांश्च सर्वसूरीश्च / वाचकांश्व मुनीस्तथा // 3 // एवं कृतनमस्कारः / स्वान्योपकृतिवांग्या // वदये प्रकरणं नाम्ना / धर्मरत्नकरंमकं // 4 // व्याख्या | -इह हि शिष्टाः कचिदभीष्टे वस्तुनि प्रवर्तमानाः संतोऽन्नीष्टदेवतानमस्कारपुरस्सरमेव प्रवर्तते, यत उक्तं-प्रेक्ष्य पूर्वकृतां प्रायः / प्रारंनेषु चतुष्टयं // वक्तुं युक्तं विनेयानां / वृत्त्युत्साहनिबंधन // 1 // मंगलं शास्त्रसंबंधः / शरीरं सप्रयोजनं // चतुष्टयमभिप्रेतं / प्रत्यूहापोहिमंगलं // 2 // त्यादि, अयमप्याचार्यो न हि न शिष्ट श्यतः शिष्टसमयपरिपालनाय, तथा श्रेयांसि बहुविघ्नानि नवंतीत्युक्तं च-श्रेयांसि बहुविनानि / जति महतामपि // अश्रेयसि प्रवृत्तानां / कापि यांति विनायकाः // 1 // इति. इदं च प्रकरणं धर्माधर्मादिफलप्रतिपादकत्वेन सम्यग्दर्शनशानादिहेतु. त्वात श्रेयोभृतं वर्तते, अतो विघ्नविनायकोपशांतये, तथा प्रयोजनादिरहिते प्रेदावतो न प्रवर्तते, तदुक्तं-सर्वस्यैव हि शास्त्रस्य / कर्मणो वापि कस्यचित् // यावत्प्रयोजनं नोक्तं / तावत्तकेन गृ ह्यतां // 1 // तथा-सिघार्थ सिघसंबंध / श्रोतुं श्रोता प्रवर्तते / शास्त्रादौ तेन वक्तव्यः / संबं. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust