________________ धर्म | तचारित्रात्मकः सर्वझनाषितः सर्ववेदिनिः प्ररूपित इति. नक्तं धर्मखरूपमथाधर्मस्वरूपमाह-यः | त्र यस्मिन्नधर्मे हिंसा प्राणिप्रहाणरूपा वर्यते क्रियते च सोऽधर्म इति सर्वत्र योज्यं. मृषा वितथा नाषा वाणी यत्र वर्यते भाष्यते च, चौर्य स्तैन्यं यत्र प्ररूप्यते विधीयते, यत्र मैथुनसेवनमब्रह्मनिषेवनं स्त्रीसेवनमित्यर्थः प्रदर्श्यते सेव्यते च, यत्र महालोजश्च सचित्ताचित्तवस्तुषु महानिलापश्च मूर्गतिरेकश्च निरूप्यते क्रियते च सोऽयमधर्मः पापं विज्ञेयो वेदितव्यो जिनदेशितो जिनप्र रूपित इति श्लोकद्दयार्थः. अथ धर्माधर्मयोः फलमुपदर्शयन श्लोकचतुष्टयमाह // मूलम् ॥–सत्कुले जातिरारोग्यं / सौजाग्यं रूपसंपदः // आयुर्दीर्घ वरा लक्ष्मीः / कीर्तिविद्या वरस्त्रियः // 1 // यदन्यदपि सबस्तु / सुंदरं हृदयेप्सितं // जीवानां जायते लोके / सर्व ध. मस्य तत्फलं // 2 // हीनजातिः सरोगत्वं / दरिडत्वं परानवः // अल्पमायुः कुरूपलं / दो ग्य दीनवृत्तिता // 3 // यदन्यदपि वस्त्वत्र / प्राणनाजां न सुंदरं // दुःखाय जायते लोके / तत्सर्व पापजूनितं // 4 // व्याख्या-सत्कुले शोननवंशे उग्रगोगादौ जातिरुत्पत्तिर्यद्भवति तधर्मफलमि ति सर्वत्र संबंधः कार्यः पारोग्यं नीरोगता, सौजाग्यं सर्वजनवहानत्वं, रूपसंपदः शरीरसौंदर्यश्रियः, | P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust