SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पञ्च-परमेष्ठि-गुणमालायाम् /3 NMORENAMRin भव्यः-शोभनः / दिव्यः-अलौकिकः / ध्वनिः / जयति-विजयते / सर्वोत्कर्षेण-वर्तते इति भावः / रूपकालङ्कारः // 3 // शयाब्जेऽस्वप्नानां प्रमदभरलास्यं विदधती, जिनास्याजं प्रेक्ष्योदित-मुदितहास्याङकुरवती / चकोरद्वन्द्वं वाऽतुलधवलिमापूरितगतिः, . ... सुखं केषामेषा जनयति न वा चामरततिः // 4 // सौरभः- अस्वप्नानाम्-न स्वपन्ति निद्रातीत्यस्वप्ना वास्तेपां तथा / "देवाः सुपर्व.... गीर्वाणा "मरुतोऽस्वप्ना विधा दानवारयः" / 2 / 3 / / इत्यभिधानचिन्तामणिः / शयाजे-करकमले, "शयः शमः हस्तः पाणिः करः" 3 / 255 / / इत्यभिधानचिन्तामणिः // प्रमदभरलास्यम्-हर्पोद्रेकप्रयुत्त.नृत्यम् / विदधती-कुर्वती / जिनास्यानम्-जिनेश्वरवदनकमलम् / प्रेक्ष्य-समवलोक्य / उदितमुदित हास्याकुरबती-समुत्पन्नहर्पप्रयोज्यहासाकुरशालिनी / चकोरद्वन्द्वम्-चकोर मिथुनम् / वाइव / "वा समुच्चय एवार्थ उपमान-विकल्पयोः" इति मेदिनी। अतुलधवलिमाअतुतोऽनुपमो घवलिमा शुक्लता यस्याः सा तथा // आपूरितगतिः-अनवरुवप्रसरा / एषा-प्रत्यक्ष दृश्या / चामरततिः-बालव्यजनावलिः / "चामरं बालव्यजनं रोमगुच्छः प्रकीर्णकम्" 3 / 381 // इत्यभिधानचिन्तामणिः। केषाम्-जनानामिति शेपः / नृखम्-आनन्दम् / न वा-नहि / जनयति-उत्पादयति ? / अपि तु सर्वेषामेवानन्दं जनयत्येवेति भावः / उपमालङ्कारः / / 4 / / महामोहद्रोहाद्यरि-करिविनाशाय रचितं , सुवर्णं स्वर्णाङ्गं वरघृणिमणीपूर्ण-खचितम् / क्रमान्दोलत्पीठं सुकृतजननं दिव्यनयनं , जिनानामास्थानं विलसति मगेन्द्रासनमहो / / 5 / / सौरभः- महामोहद्रोहाद्यरिकरिविनाशाय-महामोहद्रोहादयो येऽरयः शत्र, वस्त एव करिणो मत गजास्तेषां विनाशो विध्वंसो-महामोहद्रोहाद्यरिकरिविनाशस्तस्मै तथा / रचित न्-निमितम् / सुवर्णम्-सुष्ठु शोभनो वर्णों रूपं यस्य तत्तथा। स्वर्णाङ्गम्-काञ्चनमयावयवम् / वरघृणिमणीपूर्णखचितम्-वरा श्रेष्ठा घृणिः किरणो यासां ता वरघृगयस्ताश्च ता मणयो रत्नानि वरघृणिमणयस्ताभिः पूर्ण यथा स्यात्तथा खचितं-व्याप्तं तथा / मणिशब्दवन्मणीशब्दोऽपि प्रयुज्यतेऽभियुक्तस्तथा हि - ." बोधागा सुपदपदवी-नीरपूराभिरामं , जीवाऽहिंसाऽविरतलहरीसङ्गमागाहदेहम् / P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust
SR No.036425
Book TitleChar Granth Sangraha - Panch Parmeshthi Gunmala - Chaturvinshati Jinstutaya - Varnakram Sukti Panchashika - Gautam Swami Charitram
Original Sutra AuthorN/A
AuthorVijaydharmdhurandharsuri
PublisherSyadvadamrut Prakashan Mandir
Publication Year1994
Total Pages145
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy