________________ // श्रीपरमात्मने नमः / / “पञ्चपरमेष्ठिगुणमाला" १-अर्हद्गुणमाला अयं रक्तः कामं तदपि गतरागाननुगतः, प्रमाणेनोच्चैः श्रीजिनवरतनोदिशगुणः। . सदा गीतं गायन् दलचलनदम्यानुसरणावशोको लोकानामपहरति शोकं तरुवरः // 1 // सौरभ-टोकाया मङ्गलम् ॐ ह्रीं अर्ह वरं मन्त्रं प्रणिधाय परं महः / परमेष्ठि-गुणग्रामं ससौरभमभिष्ट्रमः // सौरभः- कामम्-पर्याप्तम् / रक्तः-अरुण: / लोहित इति यावत् / यद्यपीति शेषः / तदपि-तथापि / गतरागान्-वीतरागान्, अर्हत इति यावत् / अनुगतः-अनुवर्तमानः। प्रमाणेन-परिमाणेन / श्रीजिनवरतनो-श्रीमह वपुषः। द्वादशगुणः-द्वादशगुणाधिकः / उच्चः-उन्नतः / दलचलन-दम्यानुसरणात्-पत्रान्दोलनच्छलाश्रयणात् / सदा-सर्वदा / गीतम्-गानम् / “गीतं शब्दितगानयोः" इत्यनेकार्थः / गायन्-आलपन् / अयम्-पुरोवर्ती। अशोकः-कङ्केलिः, वजुल इति यावत् / “अशोको कङ्केलि-वजुली" इत्यनेकार्थः / तरुवरः-वृक्षश्रेष्ठः / लोकानाम्-जनानाम् भुवनानां वा। "लोकस्तु भुवने जने" इत्यमरः। शोकम-खेदम्, पुत्रवियोगमरणादिजनित-वैवलव्याख्य-चित्तवृत्ति-विशेषमिति यावत् / तथोक्त रसगङ्गाधरे-"पुत्रवियोग-मरणादि-जन्य-वक्लव्याख्यश्चित्तवृत्ति-विशेषः शोकः" इति / "शोकः शुक् शोचनं खेदः 2 / 213 // इत्यभिधानचिन्तामणिः। अपहरति-निवारयति, विनाशयतीति यावत् / अत्र-रक्तस्य विगत-लौहित्यानुगमनं विरोधः, विरहितरागद्वेषानुगमनार्थत्वेन समाधानमिति विरोधस्याभासीकरणात् "आभासत्वे विरोधस्य विरोधाभास इष्यते" इति चन्द्रालोकोयलक्षणलक्षितो विरोधाभासो नामालङ्कारः। स्वनोऽयं न P.P.AC. Gunratnasuri M.S.. Jun Gun Aaradhak Trust