________________ ता वतारः षण्णामपि जीवनिकायानां श्रद्धायुक्त एव भवति। अत एवोच्यते 'सत्येव न्याय्यमणुव्रतादीनां ग्रहण मित्यादि, युक्तं चेदमेव, यतो यः श्रद्धत्ते जीवान असतया स्थावरतया च स एव क्षित्यादीनां स्थावराणां वधस्य वर्जनमशक्यं मत्वा तं परिजिहीर्षुः सन् त्रसकायस्य वधं वर्जयन् स्थूलां प्राणातिपाताद्विरतिं करोति / यस्य तु सम्यक्त्वेन. शून्यस्य त्रसस्थावरभेदेन श्रद्धानमेव जीवानां नास्ति, स कथं तां तथाविधां कुर्यात् , तदभावे च:शेषाणामपि तवृत्तिप्रायत्वादभाव एव तत्त्वतः स्यात् / ततो युक्तमुक्तं 'सत्येव सम्यक्त्वे न्याय्यमणुव्रतादीनां ग्रहणं किञ्च-श्रमणोपासको लोकव्यवहारार्थमावेणिकान् आचारान् कुर्वाणोऽपि न तत्करणं धर्मत्वेन मन्यते / अत एव च 'निरर्थिकां न कुर्वीत, जीवेषु स्थावरेष्वपि / हिंसामहिंसाधर्मज्ञ' इत्याद्युपपद्यते। ततश्च सर्वप्राणिवयवर्जनरूपां सर्वविरतिमभीप्सन स्थूलप्राणवधविरतिरूपां देशविरतिं कुर्वन्नपि श्रमणोपासकः अणुव्रतादीनां प्रकृतिसुन्दरत्वमाम्नाति श्रद्दधाति च। न च वाच्यमनन्तानां वनस्पत्यादीनां स्थवराणां वधस्य न वर्जनं कृतं तर्हि परिमितानामितरेषां वधादेवर्जनेन किं हि व्रतत्वमिति / यतस्त्रसवधो वर्जितुं शक्यः, सतयैव चैषां जीवानां वोऽतिसरळेशकरः, सिद्धान्तश्चष यदुत-हिंस्यकर्मविपाकेनापि जायमानायांहिंसायां हिंसकानां सक्लिष्टत्वानिमित्तभावादविग्तेश्च भवत्यघवृन्दस्य बन्धः। अभावे तु सक्लेशादीनां 'जयं भुजंतो' भासत में न बंधईत्यादिवचनान्नास्त्येव बन्धळेशोऽप्यधवृन्दस्य। अत एव चाप्रमत्तानां हिंसाया अभावाभावेऽपि अनात्मारम्भकत्वादि गीतमागमे इति / किञ्च-स्थूलवधविग्त्यादीनामेव प्रकृतिसुन्दरत्वात् कश्चिदशः प्रत्यनीको वा बिहायानाद्याहारं मांसाद्याहारतया नियमयति, यावत् षष्ठे त्यक्त्वा च दिनभोजनं निशाभोजन नियमयति, तदा शासनरसिकः प्रत्याख्यापकस्तं तथाविदधतं निषेधति, न च तथा व्रतयति कथमपि, तथाप्रत्याख्यानस्थ प्रकृत्यैवासुन्दरत्वात्। एवं स्थूलाणुमृषावादविरमणादिष्वपि स्थूलमृषावादादिविरमणादीनामेव प्रकृतिसुन्दरत्वं ज्ञेयमिति। ननु स्थूलप्राणवधविरमणमित्यत्र कस्य स्थूलत्वं ?, यतो विरमणं वधश्च क्रियारूपो, क्रियायाश्च द्रव्याधितत्वान्न स्थूलत्वं न चाणुत्वं / यदि च प्राणानां स्थूलत्वमाम्नायते, तदपि न योग्य। यतो यथाभूताः एव हि सूक्ष्मशब्दवाच्यानां स्थावराणां स्पर्शनादयः प्राणास्तथाभूता पव च स्थूलशब्दवाच्यानां सानामपि / यतो KUL नात्र स्थूलशब्देन. बादरकर्मोदयनिष्पाद्यशरीरवत्त्वं विवक्षित, . तदितरत्र च सूक्ष्मनामकार्मोदयनिष्पन्नत्वं, P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trus बकाया - - - B UNAM A A OOL .. .......................... S a masyrint- famittariatim ATit