________________ - % 3 - तर्का 2txxx सूत्र वतारः // 1 // . ॐनमो जिनाय आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसरिवरनिर्मितः पञ्चसूत्रतर्कावतारः (1) अथ शेषचतुःसूत्र्यामैदम्युगीनजनोचितस्तर्कावतारः। 'जाताया'मिति-'संविग्गो गुरुमूळे सुयधम्मो इत्तर व इयरं वेतिवचनात् 'सुहगुरुजोगो तव्वयणसेवणे तिवचनाच्च तथाविधप्रवृत्तेर्गुरुजनेभ्यः सकाशादुपैचायाँ, / किञ्च-भवितुकामानामपि लघुवयोलब्धप्रव्रज्यादीनां तादृशोऽपि विद्यत एव वर्गों यो देशविरतिमप्रतिपद्यैव In सिद्धः। पठ्यते च शास्त्रेषु-सिद्धासहख्येयांशोऽप्रतिपनदेशविरतिक इति। केषाञ्चिन्न जायतेऽपि अन्तरा देशविरतेः प्रतिपत्तौ श्रद्धेति / येषां सा जायते ते त्राधिक्रियन्ते इति दर्शनार्थमुत्पत्तिप्रदर्शको जातशब्द इति / न च वाच्यं पञ्चाशके तोलयित्वाऽऽत्मानं देशविरत्या दुःषमकाळे तु वर्णाश्रमवद्विशेषेण देशविरतिं पालयित्वा सर्वविरतेरुक्ता प्रतिपत्तिः, धर्मबिन्दावपि दुःस्वप्नकथनादिमातापितृनिर्वाहसाधनकरणस्य सर्वविरतिप्रतिपत्तेरादौ प्रतिपादनात् देशविरतिमूलैव सर्वविरतिप्रतिपत्तिः स्यादिति। यतः आवश्यकादिषु क्वापि भवे अस्पृष्टदेशविरतीनामपि सिद्धत्वस्य प्रतिपादनात् , श्रीनिशीथचूादिषु गर्भाष्टमादीनामपि सर्वविरतेः प्रतिपादनाद्, भगवद्भिः श्रीहरिभद्रसूरिभिरेव श्रीपञ्चवस्तुप्रभृतिषु सप्ताधिकवर्षक्यस्कानां सर्वविरतेरहत्वस्वीकाराच। तत्त्वतस्तु प्रतिपन्नगाईस्थ्यानां पञ्चाशकादिशास्त्रोक्तः क्रमो दुषमारके आनुकूल्यतामागिति पञ्चाशकादिषु तथा प्रतिपादितमिति / ततश्च न सार्वत्रिक एष पश्चाशक्रादिप्रोक्तो नियमो, न वा तदविधाने विधिविरोध इति। स्थूलप्राणातिपातविरमणादिको धर्मः, श्रीऔपपातिकादिषु स्पष्टतया तस्यागारधर्मतयाऽऽख्यानात्। गुणाश्चात्र तत्प्रतिपत्तेरनन्तरं तत्पालनं यत्नाद्याः पापमित्रसङ्गवर्जनाद्याश्च / यद्वाऽणुव्रतानि धर्मतया दिग्विरत्यादयो गुणा गुणवतादिरूपाः स्थूलपरिग्रहविरमणोक्तेरनु 'इश्चाईति' वचनात्तेषां 00- // 5 // IMP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust