SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तर्का वतारः सुत्र // 35 // क्तिर्युक्तैवेति / यद्यपि 'नासक्त्या सेवनीया हि, स्वदारा अप्युपासकै रितिवचनेनाभियुक्ताः स्वदाराणामप्युपसेवनं नासक्तिभाग् भवति श्रमणोपासकानामित्युपदिशन्ति। परं तत्रासक्तिशब्दो न रागापरपर्यायाया आसक्तेर्वारकः, तामासक्तिमन्तरेण मैथुनस्यैवाभावात् / अत एव च तनिरपवादं। न च प्राणातिपातादिवत्तत्र द्रव्यभावविकल्पभवा पुरुषाणां चतुर्भङ्गी, कथश्चनापि न निर्दोषता। अत एव चात्र कामाभिलाषस्य नातिचारतोक्ता किन्तु तीवकामाभिनिवेशस्य / श्रूयते च महाव्रतानि प्रतिपत्तुमसमर्था देशविरतिं प्रतिपद्यमानाः स्वेषां कामभोगासक्तत्वं शापयित्वा तां प्रतिपद्यन्ते इति / 'अहण्णं अहण्णं अकयपुण्णे रजे जावः अंतेउरे माणुस्सपसु य कामभोगेसु मुन्छिए जाव अझोववण्णे नो संचापमि जाव पव्वइत्तपत्ति श्रीज्ञातधर्मकथासु एकोनविंशतितमेऽध्ययने श्रीपुण्डरीकनृपवचनं चैतदेव ज्ञापयति / एवं च त्यक्तुमशक्तानां गृहवासो नाऽऽसक्तानां देशविरतिमतामितिवचः प्रलापमात्र, अशक्तेरपि विषयासक्तिमूलत्वादेवेति योग्यमेवोक्तं तीवकामाभिनिवेश इति / पञ्चमं चाणुव्रतं यद्यप्यत्र स्थूलकपरिग्रहविरमणमित्युक्तं, परं वस्तुवृत्त्या धनधान्यादीनां पग्मिाणस्य करणमित्येव पञ्चममणुवतं मन्तव्यं, परं यदत्र विरमणशब्देनोच्यते पञ्चममणुव्रतं, तत्र प्रथमं तु 'हिंसानृतस्तेयमैथुनपरिग्रहेभ्यो विरतिव्रत'मिति 'देशसर्वतोऽणुमहती' इति तत्वार्थसूत्रं 'सव्वाओ परिग्गहाओ वेरमणमिति पञ्चममहावतपाठं चानुकृत्योच्यते, परं अविद्यमानस्याप्राप्यस्य गतमानस्य वा लोकातिरिक्तस्य षट्खण्डाधिकभूमिपतित्वस्यादृष्टाकल्पितम्य वा निवृत्ति विधाय माभूत पञ्चमाणुव्रतधर इति। अत एवातिचारेषु न परमण्डलभूम्याद्यतिक्रमाद्या अतिचारा उक्ताः / यद्यपि समुदायेन परिगृहीतसर्ववस्तुमूल्यं नियतीकृत्य तदधिकऋद्धिधिरतिमतां नैतेऽतिचारा भवन्ति पृथक्तया, परं विवेकिनः श्रमणोपासकस्य धनधान्यादिांवभागेनैव परिग्रहस्य परिमाणनियमनमुचितं। तथैव चानन्दादिभिः परिग्रहपरिमाणकरणवते विभज्य स्वीकृतं, परैरपि / विवेकिभिस्तस्य तथैव स्वीकार्यत्वमिति धनधान्यादयोऽतिचाराः सामान्यतोऽत्र स्थूलपरिग्रहविरमणतयोक्तस्याणुव्रतस्य निबद्धा इति। श्रावकप्रज्ञप्त्यादिषु श्रावकधर्मप्रतिद्धेषु प्रन्येषु तु परिग्रहपरिमाणस्यैवाणुव्रततोक्ताऽस्तीति / यद्यपि पञ्चमेऽणुव्रते धनधान्यादीनां नवविधानां पृथक् पृथक् . परिमाणकरणं सूत्रेष्वादिष्टं, कृतस्य च परिमाणस्यातिक्रमेणातिचारभावादतिचाराणामपि नवविधतैव युक्ता, परं धन्यादीनां केषाश्चित् धनादिभिः COOOOOOOOOO इति। श्रावकाशप्त्यादिषु प्रावधान पृथक् पृथक् परिमाण . केषाञ्चित् धनादिमिः 35 // Ac Gunratnasuri M.S. Jun Gun Aaradhak Trust
SR No.036412
Book TitleAgamoddharak Kruti Sandohasya Part 07
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1965
Total Pages48
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy