________________ तर्का वतार Co दोषा अभिमता इति / नव निवारणीयः 1 इति च य न धर्मतामापयेत, प POOOOOOOOO सूत्र क्लिष्टतरादिव्यवहारः कथं स्यादिति ? / यतः निर्णीततरमेतद्विदुषां यदुत-कर्मणां बन्धे प्रधानतरं कारणमध्यवसायाः, बद्ध च व्यवहारे तस्मिन् प्रागङ्गीकृते च पश्चात्तद्विलोपने भवन्त्येव क्लिष्टतराध्यवसायाः, क्लिष्टतरश्च स्यात्तत्र पापबन्धस्तत्र न किमप्याश्चर्य / किञ्च-सत्यवादादिष्वपि व्यवहार एव निबन्धनं, तदतिक्रमादेव च तत्रापि मृषावादादयो दोषा अभिमता इति / नन्वेवं चतुर्थेऽणुव्रते स्वदारगमनस्य नियमनात् तुर्याणुव्रतस्य चागारधर्मत्वात् विधिना स्वदारेवभिगमो धर्मत्वमापद्यमानः कथं निवारणीयः' इति चेत् / सत्यं, तुर्य अणुव्रतमगारधर्मः, परं तत्र नाभिगमनस्याणुव्रतत्वं, येन तथाविधमपि मैथुनं धर्मतामापद्येत, किन्तु तुयें हि अणुवते स्वदारैः सन्तोषः क्रियते, तथा च तत्सन्तोषस्य परकलत्रपरिग्रहविरमणस्य धर्मत्वमणुव्रतेऽत्रेति / परतीथिकानां देवाः सस्त्रीका इति ते स्वदोषाच्छादनाय ऋतुगमनादिनाम्ना स्वदारगतस्य मैथुनस्य 'ऋतुकाले विधानेनेत्याख्याय निर्दोषतामाचख्युः। स्मृतिकारास्तु पशुप्रायाः केचिदिति स्वपरदारविभागमप्युपेक्ष्य 'न मांसभक्षणे दोषो, न मद्ये न च मैथुने' इत्याचख्युः / श्रूयन्ते चानेकेषां परतीर्थीयानां मान्यानां महर्षीणां तथाविधा गौतमाहल्यादिदृष्टान्तेषु विडम्बनोदन्ताः / भगवन्तो जिनेश्वरा एव हि क्षपक श्रेणिलाभमहिम्ना मथितमोहमाहात्म्यतया वीतरागाः, तेषां वीतरागता च तच्चरित्रागममूर्तिपरम्परावलोकनतो निश्चीयते / परतीथिका हि तथा कामासक्ता यथा विरहय्य स्त्रियं क्षणमासितुं न शक्ताः। अत एव च ते सस्त्रीकाः सन्तोऽपि परमकुलीनजनानामनुचितं स्वस्य प्रतिबिम्बमपि स्त्रीयुक्तमेव व्यधुरित्यले प्रस्तुताप्रस्तुतेनेति / ननु कामभोगमयस्य मैथुनस्य पुण्योदयलभ्यत्वं नवा!। आये, कथं निन्द्यता तस्य, तस्माद्विरमणस्य वा महाफलत्वं / अन्त्ये, पुरुषवेदस्य पुण्यत्वेन कथमुल्लेखस्तत्त्वार्थादिष्विति चेत् / सत्यं, न हि पुण्योदयलभ्यानि सर्वाणि प्रशस्यानीति नियमः, शास्त्रेषु पापानुबन्धवतामपि पुण्यानामुक्तेः अमेध्योत्करस्य देवलोकादीष्टफलप्राप्तः सनिदानधर्माचरणस्य सम्भूत्यादिवञ्चक्रवर्तिपदपर्यन्तप्राप्तेश्च सिद्धान्ते तत्र तत्र प्रसिद्धत्वात् / या चत्रि मैथुनस्य निन्द्यता सा तत् अधर्मस्यैतन्मूलं सर्वसङ्गप्रवर्धकं सर्वान्यपापप्रवृत्तिहेत. कमेतदिति कृत्वा / शास्त्रे च पुण्यानां पापानां वोदयेन जातमिति न विचार्यते, किन्तु यद्यत् पापरूपं दुःखफलं दुःखानुबन्धं च भवति तच्चिवार्यते, मैथुनं चैवंरूपमेवेति तन्निवृत्तिः शस्यते शास्त्रे इति। // 11 // // 19 // P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust