________________ 64 __आगमोद्धारककृतिसन्दोहे श्रतमाचार्यायत्तं न तवारण्ये गणाद्विभिन्न स्यात् / आजन्माऽनागमोऽसौ नग्नाटस्तेन भुवि प्रथितः // 9 // साख्यच्छोतुः पुरतः कथाश्चिदायात आत्मगर्विष्ठः / जिनपागमा विनष्टा नग्नाटस्तेन भुवि प्रथितः // 10 // तत्प्रेम्णोत्तराख्या स्वसा तदीया च वन्दनायागात् / तां नग्नां चक्रेऽसौ नग्नाटस्तेन भुवि प्रथितः // 11 // वेश्या जनचेतोऽर्थ तामाच्छादितवती च वासोभिः / नेह श्रमणीत्यूचे नग्नाटस्तेन भुवि प्रथितः // 12 // एवं त्रयमापन साधनमागममगाररहिता स्त्री। ___ व्युच्छिन्न मन्तव्यं नग्नाटस्तेन भुवि प्रथितः // 13 // आद्य महाव्रतं ननु यतनायुक्तस्य नान्यथावृत्तेः / यतनासाधनहीनो नग्नाटस्तेन भुवि प्रथितः // 14 // समितय ईर्याद्या नैतस्याऽमावाद्रजोहते रात्रौ।। गतिरप्रमाय॑ पिच्छान् नग्नाटस्तेन भुवि प्रथितः / 15 / यावत् पदयोः परिधिस्थानं पिच्छं न तावदुन्मृज्यात् / करिपादमित रजोहद् नग्नाटस्तेन भुवि प्रथितः // 16 // प्रवदन रजसा रेणोर्वातस्यापि त्यजेन् न हिंसां सः। भाषा समिति स्य नग्नाटस्तेन भुवि प्रथितः // 17 // पात्रामावेऽज्ञानी भजेन् न माधुकरी भुनक्त्येकम् / अगमशोधितमयत नग्नाटस्तेन मुवि प्रथितः // 18 // P.P. Ac. Gunratnasuri M. GUR Aagadhak Trust ned by CamScanner