________________ श्रमण-दिनचर्या गगने तदा पुनरपि, प्रमाणे संस्थापयेत् प्रयत्नेन / कुकुट्या दृष्टान्तं, तथाऽनगारान्मनसि कृत्य / 358 / परितान्तौ निजचरणावुत्पाट्य स्थापयेद् गगनभागे / प्रतिलिख्य पदस्थानं, तत्र स्थापयति यत्नेन // 359 / / | सुप्तो यावजागर्ति, तावदाध्यात्मिकः शुभध्यायी। ___निद्रामोक्षं कुरुते, मुहूर्तमेकं विशुद्धया च // 360 // स्थविरा द्वितीययाम, सूत्रार्थविभावनेन निश्शेषम् / अतिवाह्य स्थिरहृदयाः, प्राप्ते यामे तृतीयेऽथ // 361 / / गृह्णन्ति चार्धरात्रिकालं गुरवस्ततो विबुध्यन्ते / _ पूर्वोदितेन विधिना, स्थविरा निद्रां प्रकुर्वन्ति // 362 // उद्वर्त्तनाऽपवर्त्तनमुख्यं यदि कुर्वते तदा मुनयः / प्रथमं शरीरकं प्रतिलिखन्ति पश्चाच संस्तारकम् // 363 / / कृत्वा शरीरचिन्तामीर्यापथिकीप्रतिक्रमणपूर्वम् / / कुर्वन्ति स्वाध्यायं, गाथात्रयमानमधिकं वा // 364 // निद्राऽपगमे गुरवस्तचं ध्यायन्ति चिन्तयन्त्यथवा / ____अभ्युद्यतं विहार, तृतीययामे जनोद्धारम् // 365 / / सरि-स्थविर-ग्लानप्रमुखा निजसमय एव कृतनिद्राः। भावेनाप्यपनिद्रा, विचिन्तयन्तीदृशं हृदये // 366 / / 'धण्णाणं विहिजोगो, विहिपक्खाराहगा सया धण्णा / ___ विहिबहुमाणी धण्णा, विहिपक्ख असगा धण्णा'॥३६७। - P.P.AC.GunratnasuriM.S Gun Aaradhak Trust by CamScanner