________________ - श्रमण -दिनचर्या त्रिविधेन कायसञ्जा, व्युत्सृष्टेति त्रिवेलमुच्चार्य / ___भिक्षामटन्ति ये तैर्दण्डप्रक्षालनं कार्यम् // 318 // मार्गमपि श्रमणीनां, परिहरमाणोऽप्रमद्वरो मौनी / समितात्मा मुनिवर्गः, प्रतिश्रयं प्रतिनिवर्तेत // 319 // तदनु प्रविशन् वसतो, कुरुते नैषेधिकीं बृहच्छन्दम् / वदति च 'नमो खमासमणाण' मिति विनीतविनयः सन् / / लघुरादाय यतीनां, दण्डान्मुञ्चेत प्रमृज्य भिच्यादि / / कमयोः प्रमार्जनीय, रजोहरणस्य दशिकाभिः / / 321 / अनुगुर्वीर्यापथिकीप्रतिक्रमणपूर्वकं गुरोः पुरतः। गमनागमने आलोच्य, स्वाध्यायं च प्रकुर्वन्ति / / 322 / / संयमयोगे निहिते, यावद्योगान्तरस्य समयो न / तावत्सर्वत्र मुनिः कुर्यात्स्वाध्यायविधिमेव // 323 / / पूर्ण तृतीययामं, ज्ञात्वा छायानुमानतः साधुः / गुरवे कथयति यदनुप्रेक्षासमयोऽधुना पूज्याः ! // 324 // प्रथमं पूरिः पश्चात्साधुर्दत्वा क्षमाश्रमणमेकम् / प्रतिलेखनां करोमीति, बदति दचा द्वितीयं तु // 325 // वसति प्रमार्जयामीति, भाषतेऽथाऽऽस्यवस्त्रिका प्रेक्ष्य / / / त्यक्तक्रियान्तरः सन् , लघुवन्दनकद्वयं दद्यात् // 326 // तत्रैकेन शरीरप्रेक्षा लघुवन्दनेन सन्दिश्य / अन्येनाङ्गप्रतिलेखनां करामीति भाषेत / 327 // P.P. Ac. Gunratnasuri Aaradhak Trust amScanner