________________ श्रमण-दिनचर्या उन्मत्तश्छिन्नकरो, बद्धश्छिन्नांहिपादुकारूढौ / विगलत्कुष्ठो व्यालोडकश्च षट्कायवधकारी / / 218 / / कर्तक-लोढक-वींषक-विरोलका मर्जकश्च भुजानः / कण्डक-पेषक-दलकाः, षटकायविघट्टकचापि / / 219 / / सापाया शिशुवत्सा, परकीयपदार्थदायिका गु: / इत्यादिदायकानां, ददतामोघेन न ग्राह्यम् / / 220 // करमन्दकादिनाऽचेतनेन (सचित्तेन) यत्पूरणादिकमवित्तम् / मिलितं ददाति भक्त्याऽनुपयोगेन च तदुन्मिश्रम् / 221 // अपरिणतं तु द्रव्यं, भावो वा तत्र तद् द्विधा द्रव्यम् / दाग्राहकसत्तास्थितं यदप्रासुकीभूतम् / / 222 / / भावोऽप्येवं द्वधा, देये साधारणे यदेकस्य / दित्सा नैवान्येषां, दायकभावापरिणतं तत् / 224 / / शुद्धमिदमिति यदेकस्य, न द्वितीयस्य परिणतं भवति / भिक्षामटतोः साध्वोहिकमावापरिणतं तत् // 225 / / अत्र च शुद्धा विषमा, भङ्गाश्चत्वार एव यत्तत्र / पश्चात्कर्म न सम्भवति, सावशेषाशनग्रहणात् / / 226 / / छर्दितमुक्तं त्यक्त, तत्र च मधुपिन्दुपतनदृष्टान्तात् / परिशाटिसम्भवे सम्पतन्ति काकादयो जीवाः // 227||. इत्यभयकृता एते, दशापि दोषाः समासतो भणिताः। एवं स्थिते द्विचत्वारिंशद्रोषा मताः सर्वे / 228 // P.P. Ac. Gunratnasuri M. GUR Aagadhak Trust led by CamScanner