________________ 12 आगमोद्धारककृतिसन्दोहे वामादक्षिणगेहे, दक्षिणगेहाच भिक्षते वामम् / गोमूत्रिका मता सा, पतङ्गवीथिस्त्वनियता स्यात् // 1 मध्यं विना चतुर्दिक्षु भिक्षते यत्र सा भवेत् पेटा / द्विद्वयसम्बन्धिश्रेणिभिक्षणे त्वधेपेटा स्यात् // 109 / / अभ्यन्तरशम्बूका, यस्यां क्षेत्रस्य मध्यतो भिक्षाम् / भ्राम्यन् बहिर्विनिसरति, शङ्खवृत्तत्वगमनेन / / 110 // सा तु बहिः शम्बूका, यस्यां भिक्षा भ्रमन् बहिर्देशात् / क्षेत्रस्यान्तः प्रविशत्येवं वीथ्यो मता अष्टौ // 111 / / पिण्डः शय्या वस्त्र पात्र तुम्मादिकं चतुथं तु / __ नैवाकल्प्यं गृणीत, कल्पनीयं सदा ग्राह्यम् / 112 / / पिण्डषणां च पानकशय्यापात्र षणां न योऽधिजगे। तेनाऽऽनीतं मुनिना, न कल्पते भक्तपानादि // 113 // देशोनपूर्वकोटिं, विहरनिश्चितमुपोषितः साधुः / निर्दोषपिण्ड भोजी, ततो गवेष्यो विशुद्धोऽन्धः // 114|| नूनमचारित्री मुनिरशोधयन् पिण्ड-वसति-वस्त्रादि / .. चारित्रे पुनासति, प्रवज्या निष्फला भवति / / 115 / / पिण्डः शरीरमुक्तं, तस्योपष्टम्भहेतरिति पिण्डः। द्रव्यमपि समयरूढैरेकोऽनेकश्च स द्वधा / / 116 / / अशनाद्याश्चत्वारो, वस्त्र पात्रच कम्बलं सूची। क्षुरपादोञ्छनके, नखरदनी कर्णशोधनकम् // 117 // P.P.AC.GunratnasuriM.S LGUN Aagadhak Trust ed by CamScanner