________________ जैनगीता। भवति नैव विधिं चरतां नृणां, श्रुतगताविधिजातमघं पुनः / यदि च कष्टतमा तनुजास्थिति-नहि तदाऽविधिरास्पदमंहसाम् / / 3 / / सा मङ्गलं प्रविदधातु जिनालिरग्ज्यं, स्वर्गापवर्गसुखदानपरा जनानाम् / या दुष्टकर्मकलिलावलितः परस्ता द्यस्याः परा न शिवगा न च पूज्यपादा // 4 // गर्भावतारसमये जननी प्रसुप्तां, याऽदर्शयत् सकलजन्मगताधात्रीम् / चक्रयङ्कितादधिकदीप्तिधरां चतुर्भिः, स्वप्नालिमुद्धुरवृषा दभिश्व युक्ताम् // 5 // जिनवरा जितरागमदाः सदा, भविजनान् सुकृतालिपरोद्यतान् / / दुरितकर्मभरात् सुगमाध्वना, विदधतु प्रवरोद्यमशालिनः // 6 // अतिप्रभाते जनताहृदजे, माङ्गल्यसौख्यैकधनप्रकाशम् / समग्रघत्रं गतविघ्नराजि, कर्तारमाप्तं सुखदं धरेद्वै // त्रिलोकनाथाँस्तत आप्तबुद्धया, हृदब्जकोशे धरति प्रगेऽयम् / / परो न तेभ्यो जगदर्थकारी, स्वर्गापवर्गप्रद एव नास्ति // मुखं प्रगे पश्यति सज्जनः सदा, ससन्ततेरादृतनीतिरीतेः / असङ्ख्यकालं प्रभुता जिनस्य, विचिन्त्य वक्त्राब्जमुषस्य वेक्षे (पश्यामि मुखाब्जमस्य) // 9 // शास्त्रे यद्यपि सर्ववस्तुविषयं न्यासे चतुष्कं मतं, भावोऽर्थाकर उच्यतेऽर्हति परं पूज्याः समेऽमी यतः। P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust