________________ जैनगीता निरुद्धयोगो भगवानयोगी, न बन्धकः सर्वनिमित्तशून्यः / सैवैति मोक्षं प्रलयात् समस्त-कर्माणुसङ्घस्य विशुद्धरूपः // 21 // अनादिकालीनचिरप्ररूढा-ऽदृष्टावले श उदीयते यः / यथा स वीजाङ्करसन्ततेः स्या-नाशस्तथाऽत्रापि निमित्तहानेः // 22 // मीमांसका विश्वविधानशून्याः, सुवर्णयोग प्रवदन्त्यनादिम् / मोक्षापलापे प्रवणास्ततस्तान् , प्रत्येष दृष्टान्त उदीरितः श्रुते // 23 // यद्यस्ति कर्मानुभवः समन्ता-दणावलेनौद्भव आत्मभूतेः / स पूर्ववन्धोदयजो न चास्ति. विशुद्धपूर्वस्य पुनः प्रबन्धः // 24 // यथैक आहार उपैति भावं, सप्तप्रकारं रसमुख्यरूपैः / .. तथा गृहीतं व्रजतीह कर्म, सप्तप्रकारं समयेऽजताद्यम् // 25 // आत्मैपोऽनन्तकणशः प्रतिसमयमहो सूक्ष्मरूपावगाढान् , गृह्णात्यंशान् समन्तात् परित्त उपधृतोऽनन्तवगैः कणैस्तु / यस्माज्ज्ञानादयोऽस्मिन्नमितपरिमितास्ते ऋते तान्न रोध्या, जीवत्वाधारभूता मलततिरहिता निश्चला अष्टदेशाः // 26 // आत्माऽस्त्यरूपो हगवस्तु कर्मणां, तथाविधा नेति कथं तयोर्युतिः ? / न चिन्त्यमेतद्युतिरच युग्मे, द्रव्यस्य धर्मादिषु सा यथा स्यात् / / 27|| स्थूलं शरीरं यदि जीवयोगि, प्रत्यक्षमेतहि कदाशयोऽन्यः / अनुग्रहे शक्तिभृतश्च निग्रहे, कर्माण्यतस्तानि रसादिमन्ति // 28 // अज्ञानान्मतिविभ्रमाद् व्रतहतेः क्रोधादितो योजनात् , हिंसारिघसञ्चयस्य सुचितेर्बन्धो न वार्यः कचित् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust