________________ 27 जैनगीता। . पुरातनस्य कर्मणः फलं प्रवेदयज्जनो, . नवीनमन्दतीह पापमेव दीर्घकालिकम् / ततो विधातृतेशितुर्न शोभते सतां गणे, न चेश्वरे पदं भवेद्भवस्थवालकोचित, .. तदेतदुक्तमहतां विमुच्य फल्गुवादिभिः // 28 // जैना 'ब्रुवन्ति जगतीसकलासुमत्सु, . मैत्र्या यदत्र भुवने दुरितं न कोऽपि / भो! सन्दधातु, यदि चाऽकृत पाक् तथापि, धर्मात् प्रणाश्य फलवेदनभाक् तु माऽस्तु * // 29 // . भावानुकम्पनयुता मनसा स्पृहन्ते, यन्मुच्यतां जगदिदं सकलाघभारात् / ... नास्तीह यद्यपि समस्तजनस्य मुक्तिः , . सम्बन्धिजीवनपरोक्तिरिवेह योग्यम् // 30 // यन्मुच्यते मनुजभावगतो हि जीवस्तस्मिन् सतीह जगतीतरसत्त्वसत्त्वम् / आवश्यकं, न च भवन्ति समे मनुष्या स्तन्नास्ति सम्भवि परं करुणोक्तिरेषा // 31 // जैनः स्यात् सो विविधविधितोऽघौघभीतः पुरापि, लब्धे धर्म प्रचुरकरुणासङ्गतेलब्धमैत्री / मान्योऽस्य स्याद्विविधविधिना हिंसनाघादिवर्जी, देवः साधुः प्रवचनरतो धर्मधुर्योऽव्ययार्थी // 32 // / इति त्रयोदशोऽध्यायः / P.P. Ac. Gunratnasuri M.S. . Jun Gun Aaradhak Trust