________________ जैनगीता। मृल्लेपादियुतं वरतुम्ब ब्रजति तले धृतजलनिकुरम्यं, अपगतलेपं तिष्ठेदुपरि तद्वन्मुक्तो भुवनतलोपरि // 17} ! तत्त्वे द्वे जगति स्तः तत्त्वात् जीवाजीवौ भिन्नाभावात , नह्येतावन्मात्रोक्तौ स्याद्धेयाऽऽदेयविवेकाभावात् / ___ मोक्षपथप्रथनं, तत उक्ता सप्त सुतत्त्वी तत्त्वार्थोक्ता // 18 / / अपेक्ष्यवादः सदसत्प्रवादो, विभज्यवादः परिवर्त्तवादः / ' वादा अनेके जगतीह मूर्ध्नि, स्याद्वाद आख्यद् द्रविणे त्रिकालम्।।१९।। ..... एवं जैनो जिनवरगदितेष्वागमेष्वेकचित्तो, : जीवाजीवौ मनुजमतिगतौ मन्यते शुद्धभावः / 1 एवं साध्यं प्रवरमतिमान् रत्नत्रय्यात्मकं तु, चित्ते धृत्वा नियवमुदयवान् जैनमायाति मार्गम् // 20 // इति एकादशोऽध्यायः / . / द्वादशोऽध्यायः / (पुण्याधिकारः ) . पुण्ये भेदा भविसुखकृतये विंशती द्वे द्वियुक्ते, वेद्याद्युत्था यदि च भविनो ह्यानुकूल्ये ह्यपेक्ष्यम् / सम्यक्त्वाद्याः प्रकृतय उदिताः सर्वमेतद्धि सत्यं, जैनो जैनं प्रकृतिसुभगं त्वाश्रयेत् स्यात्पदाङ्कम् // 1 // अकामनिर्जरावलाच् चिनोति पुण्यमुत्तमं, निगोदतः प्रयात्यसुस्ततो बहिर्निगोदताम् / ततस्ततोऽनुयात्यसौ दशां च व्यावहारिकीमुपैति सूक्ष्मबादरक्षितिप्रभृतिभावताम् ... ||2|| P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust