________________ // 1 // / जैनगीता। / सप्तमोऽध्यायः / (ज्ञानाधिकारः) ज्ञानं स्वरूपममलं मनुतेऽत्र जैनस्तेजो रवेद्युतिरिवात्रिहगुद्भूतस्य / सर्वात्मनामधिकृतिः सकलज्ञभावे, स्यात् तत् स्वकीयवृजिनक्षयमानमात्रम् दीपो यथा प्रकटयेत् स्वकमर्थसाथ, स्वार्थावभासनसहो निखिलो हि बोधः / प्रामाण्यधाम परथा विगुणोत्थबाधो, हेतून् मनन्ति मुनयोऽस्य हुपीकमुख्यान् अन्त्यं त्रयं न धरतेऽक्षमनःसहाय, प्रत्यक्षरूपमवधिप्रमुखं तु तत्त्वात् / इन्द्रियसार्थविषयोद्भवमाद्ययुग्मं, न्यक्षं मतिः श्रुतमपीह परोक्षमस्मात् कालादनादित इहासुमतां तु सत्ता, सा सम्भवेत् सुनियताऽव्यवहारराशौ / / नित्यं द्वयं भवति हीनतरं परं च, नो सम्भवेदवमताप्रभवो हि तत्र वोधस्य लेश उदितो यदनावृतः स, तस्यावृती भवति जीव उदस्तभावः / स स्पर्शनं यत इदं तनुसत्त्वसाध्यं, संसारिणो नहि भवन्ति शरीरशून्याः // 3 // // 4 // // 5 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust