________________ जैनगीता। - 193 पृथ्व्याद्या विविधा दशाभिहननादीनां पदानां वशं; . . . नीता येऽत्र जनौ पुरा भवगतेनाज्ञाननिश्राभृता / .... वेधं त्रैधममुण्य पापसदनस्याऽस्तु व्ययो दुष्कृते, आत्मा० // 72 // लोभाद्धास्ययुताद्भयाच्च यदवग् मिथ्या क्रुधा संयुतस्तन्मे सर्वभवोदधिं परिगतो भूयाद्वथा दुष्कृतम् / द्रव्येणेदमलोकलोकविपयं कालाध्वभावेषु च, आत्मा० // 73 // ग्राह्यं धार्यमदत्तमात्तममति श्रित्वा मया यद्भवेत् , तत्सर्वं विदधामि दुष्कृतपदं मिथ्या शुभेनात्मना / प्राणा यद् बहिरर्थजातमसुषु प्राणप्रदोऽर्थप्रदः, आत्मा० 174 // तैरश्चं सुरजं च मर्त्यजनुषो यत्सम्भवेन्मैथुनं, यत्तत्साधितमल्पितात्ममतिना कामान्धताधारिणा / तत्सर्वं परिहार्यतापदमद आत्मार्थतः प्रापये- दात्मा० // 5 // दुःखाना खनिरेष यो बहुविधः सङ्गो धनादिग्रहे, नातोऽन्यजगतीह जन्तुविषयं दृश्येत सहग्भयम् / तत्सर्वं परित्यज्यतापदमयेत् सङ्गो वृषाङ्कश्रितां, आत्मा० // 76 / / , संसारस्य मतो महान् परिकरः क्रोधो यतस्तद्वशाजन्तु व हिताहितं विमनुते दग्धः क्रुदग्निं श्रितः / जीवे तापकरं त्यजामि तमहं श्रित्वा सदाराधनां, आत्मा० // 77 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust