________________ 170 जैनगीता। * तत्त्वस्थं श्रुतमीयते श्रुतधरैः सर्वज्ञवाक्याश्रय, यत्त्यक्त्वा वचनं समस्तविदुषां नान्या प्रमाणान्विषा / तद्वाक्यैकनिवेदनं श्रुतिमतां सर्वार्थगं नापरं, सज्ज्ञानं० / / 12 / / सर्वज्ञ वचनं सभेतरगतं श्रृण्वन्यशेषाः सुराः, . तेषां नैव परम्परा न च गणी सूत्रालिकर्ता प्रभुः / पारम्पर्यमपीदृशं न च परं सूत्रार्थधाराः क्रमात्, सज्ज्ञानं० // 13 // देवानां न विरागमार्गगमनं योगादिका न क्रिया, मिथ्यात्वे श्रुतकेवलित्वहतिवत् प्रेत्योद्भवं नो तथा / शास्त्रं तेन परम्परा श्रुतगता मानुष्यिकी केवला, सज्ज्ञानं० // 14 // तिर्यञ्चो न यताः परम्परपदे दूरे परात् संयमात् ,, श्वभ्रस्थाननिवासिनश्च नरका न श्रौतमाम्नातिनः / मानुष्या अनिशम्य केवलविदो नाम्नायवित्तास्तके, सज्ज्ञानं० // 15 // न ज्ञानं विरहय्य शासनमिदं श्रौतं समुत्तिष्ठते, . . तीर्थस्यापि जने प्रवृत्तिरनघा श्रौतप्रबोधोद्भवा / श्रौतं चेन्न प्रवर्तते न भवति तज्जैन परं शासनं, सज्ज्ञानं० // 16 // निश्शेषाण्यपि पञ्चधा प्रतिपदं ज्ञानानि गीतानि यत् , तान्याराध्यपदानि दर्शनमुखान्यात्रिपदीवोद्धृतौ / / / तीर्थेशानि पदानि पश्च सुधियामानि तेभ्यो ननु, सज्ज्ञानं० // 17 / / ज्ञानं श्रौतमपोज्झ्य मूकसदृशान्यन्यानि चत्वार्यपि, ज्ञानानीति यदीयते श्रुतधरैस्तत्रानुयोगादृतिः / स्वार्थाभासनरूपता नु निखिला भत्र्याजसूर्यप्रभा, सज्ज्ञानं० // 18 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust