________________ 168 जैनगीता। जैनः स एव मनुते जिनराजगीतं, प्रोक्तं सभासु गणभृन्नियमेन धर्मम् / / यावत् प्रभावममलं भविभिधृतो-हि, धर्मो० // 36 // . ... इति त्रयस्त्रि ' इति त्रयस्त्रिंशोऽध्यायः / / चतुस्त्रिंशोऽध्यायः / (ज्ञानाधिकारः) . जैनो यो मनुते सदा सहगतं सज्ज्ञानमात्मश्रितं, ___ ज्ञानानन्दमयो यतो जिनमते जीवः समस्तो मतः / यावधेन विनाशितं भवति तत्तस्यावृतेः कारकं, सज्ज्ञानं श्रियतां सदा भविजन ! स्वार्थप्रबोधोद्यतम् // 1 // सूक्ष्मोऽसौ भवचक्रमध्यमुदयन् ज्ञानस्य लेशं दधद् भ्रान्तोऽनादित आवृती अतितरां सर्वत्र चैकेन्द्रियः / (?) यत्कालं व्यवहारवर्जिततनुस्तावच्छरीराल्लघुः, . सज्ज्ञानं० // 2 // आयातः पृथिवीभिदां तनुतरां प्रत्येककायं धर-.-.. श्चैतन्य व्यवहारितामनुगतः प्राप्नोति सञ्ज्ञां पृथग् / प्राक्कालादमितां जघन्यपदिकां वृद्धिं समेतोऽसुमान् , सज्ज्ञानं० // 3 // एवं वृद्धियुतो मतावतितरां वार्वायुतेजोयुते, या प्रत्येके च वनस्पतावनियमाद्वृद्धीतरे धारयन् / स्पांशेन पदार्थरूपमननादेकेन्द्रियत्वान्वितः, सज्ज्ञानं० // 4 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust