________________ 136 जैनगीता / शक्तेः समुत्पत्तिरथ प्रयत्नात् , स्थितिश्च वृद्धिश्च ततः प्रसूते / समग्रमेतत्समुदायसाध्यं, मत्वेति कुर्यात् सततं सुसङ्गम् // 21 // प्रबलवरपुण्यतः कल्पनातिगसुखं, साधनैः सह नरं शुद्धमेति, प्रचुरतरमोहजः संश्रितो नहि भवेत् , प्राणिनं वृषधरं कृष्णलेश्यः (तीर्थ्यमोहः ) सुगुरुचरणाश्रितः शास्त्रशासनयुतः प्राप्नुते जिनमतं स्वल्पयत्नात् , अपगतकुकर्मकः सिद्धजिनधर्मको मन्यते सुखकरं श्राद्धवर्यम् // 22 / / आत्माऽनादित आहितो घनमले मिथ्यात्वपङ्को रे, नैव ज्ञातमनेन सुन्दरतरं नित्यस्वरूपं निजम् / तत्सर्वं जिनराज एव विमलज्योतिर्भरेणेहितं, भव्येभ्य उदयाय तन्निगदितं मत्वा जिनं मानयेत् // 23 // रागद्वेषमुखारिवर्गविलयाज् ज्ञात्वा समग्रं जगत् , . . स्याद्वादाङ्कितसर्ववस्तुनिकरं भव्याय मोक्षाप्तये / योऽदिक्षद् विनयेषिणे मननभूरूपं स्वरूपं परं, जीवाद्यर्थचयस्य तच्छुचिमनाः श्रद्धापथं नामयेत् // 24 // भावा भविष्यन्त उदाररूपा-स्तदा यदा शस्तमना इदानीम् / जीवस्तथाऽसौ शुभशास्त्रसक्ते-स्ततो यतिभ्यः श्रवणं क्रियेत // 25 // ससङ्गश्चेदन्यो रुचिततरवस्तुबिषयं, 12 स सन्तोष्यो दत्त्वा दलितविषयादिवस्तुमननः / स से यः स्याद्भव्यनिरुपमविधेः सेवनगतात् , : // 26 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust