________________ जैनगीता / . 127 अतो न्यपेधि श्रुतसागरैः श्रुते, वर्षादिहेतोरपि धाममध्ये / उर्ध्व स्थितिः शीलसुसाधनायै, न पञ्चमः स्याद्गहिणां न चेक्षणम् // 38 // रक्ष्याः श्रमण्यः सकलस्वशक्त्या, समस्य सङ्घस्य शिवाध्वसिद्धयै / अकार्पुरग्यां श्रमणीजनस्य,(रक्षा)दुष्टोपसर्गात् सूरिकालकाख्याः।।३९।। शशकभशकवन्धू चक्रतू रक्षणं प्राग् , .. .... ... दशशतहतिशक्तो आर्यिकायाः प्रकामम् / ... रुचिरमुनिविहीनां दुष्टनिश्शीलरुद्धां.. ...... सकलबलकलाभिरार्यिकां त्रातुमुत्कौ // 40 // परिपेलवसत्त्ववती श्रमणी, शिवमार्गपरा नितरां विमला, शिशुबालतपस्वि जराज्वरिताः, किमु रक्ष्यपदानुगता न मताः। . रहिता व्रतधारणया गृहिणो, यदि तामसहां पटयेयुरिह, बतलोपमधिश्रयति प्रवरा, तदुदाहरको नहि सर्वविदः // 41 // तत्त्वतोऽसुमान्नहि स्ववेदधारको विभु. यतः समस्तवेदनाशसम्भवा समस्तविद् / ...वेपदेहसंश्रितो विकार आत्मनो ननु .... न बाधते यतः सको न मोहजातिसम्भवः // 42 // यदि च सङ्गमात्रता विवाधिकाऽस्ति केवले, सकेवले. सतीह कोऽपि चीवरेण वेष्टयेत् / तदा विनाशि केवलं किमूररीकृतं नहि ? ; यदाङ्गनांशुकेन चेत्तदा तु नश्यति द्रुतम् // 43 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust