________________ जैनगीता। 121 जनगाता। शमबोधचरित्रगुणार्पणतः शिवसाधनशुद्धसहायकृतेः, गतकाममनुश्रितधर्मपदं परिचारयतिश्रयताच्छ्रमणम् // 68 / / भव्यमाराधयेच्छिवपथं साधयेत् गुणगणावाप्तिनिपुणं हृदयं धरेत् / पापमार्गाच्च्युतं समवरश्रेणिगं निर्जरावहनगं संयमधरं हृदि चिन्तयेत् / कर्मदावानले शमपयो वर्षयेद् गुणिजने मोदमनिशं मनसा वहेत्, क्षान्तिवारांनिधिः कृतमघं चिन्तयेन् मदनगे नैव गमनं सुजनो . धरेत् // 61 / / न यस्य रागरञ्जनं न लेप आश्रिते जने, ... सचित्तमुख्यसाधने न सङ्गलेश आप्यते / ज्वलस्तपोजतेजसा दिवाकरोऽवदीप्तिमान् , .स सौम्यतागुणैर्जनेपु चन्द्र आप्तवानमुम् // 7 // :: स ईदृशं मुनिं सदा श्रयेत भावशुद्धितो, द्वयेऽपि यान्ति सद्गति मुनीश्वरोऽथ वन्दकः / न जैनशासने मताऽधमर्णरीतिरल्पशः, .. प्रदीपकान्तिवत्समेषु जायते फलं वहौ // 7 // / स जैनः स्याच्छ्रेष्ठः प्रचुरतरगुणैर्युक्तमनिशं, सदा मोक्षोद्योगं दधति च परमानन्दकलितः / / शिवाप्त्यै सत्साधुं निजपरिकरतो वत्सलधरं, __ . नमेन्मर्हेत् शुद्धं निजजननफलं नापरमतः // 72 // ......: इति सप्तविंशोऽध्यायः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust