________________ जैनगीता। 117 छेदोपस्थापनीयाभिहितिसुधरणात् साधुपर्यायसङ्ख्या, गण्या यस्मात्ततोऽमी व्रतपरिणतिकाः सद्वितीयाच्चरित्रात् / / . साधूनां सर्वचर्या मुनिपतिगणतद्वासिनां निश्रया स्यात् , पश्चात् प्राप्तः श्रुतालिं परिणमितदशः स्यात्तृतीये चरित्रे // 42 // एवं श्रामण्यचर्यामनुगत उदितो मोहनीयक्षयाय, . तत्रापि प्रान्त्यभागे यदि भवति कणो लोभगो नाशनीयः / तत्राऽसौ शुद्ध आत्मा चरणमनुपमं तुर्यमाधाय तिष्ठेत् , सूक्ष्माक्तं सम्परायं जिनपतिचरणाल्लेशमात्रेण हीनम् // 43 // जिनानां चरित्रं कपायविहीनं, यथाख्यातमेतद्धि वयं समेषु / समग्राः पुरोक्ता अधिकारपात्रं, समाश्रित्य वर्तन्त एतच्चरित्रम् // 44 // एवं साध्यस्य काष्ठां विविधगुणवती लक्षणीकृत्य पञ्च, प्रोक्ताश्चारित्रभेदाः शिवपदपथिकाः संयताख्यां वहन्तः / सर्वेऽप्येते दशापि प्रवरगुणगणा भिन्नभिन्नस्वरूपाः , श्लाघ्यं साधुत्वमेषां निजकृतिसजुपामीर्ण्यया हीनचित्ताः // 45|| नम्याः सर्वेऽपि जैनैः परमपदगता ईशितारो गुणानामन्त्ये स्थाने स्थितास्ते नतिपदसहिताः सर्वशब्दस्तु साधौ / यत्तत्रानेकरूपाश्चरणमधिगता भिन्नभिन्नोक्तचेष्टाः, सर्वेऽप्येते समाः स्युर्द्रमकनरपतिस्थानभेदोऽपि नाऽत्र // 46 // सर्वेप्येते नम्यपादा मुनीशा, धर्मानीके त्यक्तधर्मातिरिक्ताः / मोहोन्माथे बद्धकक्षाः सदैते, नम्याः स्तुत्याः सर्वदा सक्रि ार्हाः॥४७॥ P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust