________________ जैनगीता। 113 साध्ये निश्चित उद्यमो नु विदुषां मोक्षे त्वनन्यात्मकश्चारित्रं ह्यद उद्यमो न च फलेज्ज्ञानं विना कस्यचित् / हेतोः साधनबाधनप्रचयगं कर्मागमोद्योतने, :- साधनबाधकसार्थगं भवति तत्कर्मागमोबाधने, ज्ञातव्यानि ततोऽघसङ्गमहतौ रूपाणि सत्त्वो रैः // 16 / / मत्वैवं जिनराड़ दिदेश भविनः सम्यक्त्वबोधव्रतान्यन्ये तद्विधबोधवृत्तरहिता देष्टुं न चैवं क्षमाः / / तत् संसारसमुद्रवाह निरतोऽनादेरसौ नासदत् , . . पुण्योदेशपरं समस्तविदमुन्मोहं जिनं दुर्गतः . // 17 // मत्वैवं भववारिधेः परतटं गन्तुं मुनीशो जिनं, दातारं शरणस्य कर्मकटकात् त्रातारमाशिश्रियत् / . सेनानीः सुभटान् रणाङ्गणभुवि प्राप्तश्रियः स्यादलं, कर्तुं चेत्सुभटा रणोद्यमपरा अत्रोद्यमस्तद्धितः .. // 18 // : मत्वेति प्रवरोद्यमा मुनिवरास्त्यक्त्वाऽऽश्रवान् पञ्चधा, . :, संसाराम्बुधिवर्धने पटुतरान् दुःखैकदावानलान् / पोतं संवररूपमाप्य मथने शुद्धे तपस्युद्यताः, . . . बालान् वृद्धतपस्विनश्च सततं ये स्युः सदा सेविनः / / 19 / / शिक्षासु प्रवणो भवेन्न मतिमानाऽऽरम्भतः कास्वपि, .. किं कर्मक्षपणाय सादरतया प्रारम्भतस्तत् क्षिपेत् / सच्चेष्टोऽपि ततो नरो धृतिपरः प्रोद्युक्तयत्नः सदा, काङ्क्षी चेत् प्रवरस्य तस्य यतते काष्ठा परा यावता // 20 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust