________________ जैनगीता / द्रव्यं जिनस्य न भवेदपरिग्रहस्य, भक्त्यै गृहीतममलेन हृदा जिनस्य / वृद्धौ जिनेशयजनोन्नतिकेऽस्य भावी, सच्छासनस्य भुवि वर्तयिता . ... न चित्रम् // 40 // चैत्यं बिम्बं जिनस्य प्रभवति सकले सम्भेदे हिताय, .. 15. . बाला वृद्धा युवानः सुकृतमतिधराः स्वीययोषाभिरक्ताः / जात्या वंशेन देशैः प्रचुरनिचयिनोऽबाधधामाभिलापाः, . लाभं बोधेर्लभन्ते जिनपतिपठितं सुस्थितं तद्धि दृष्ट्वा / / 4 / / तत्सर्वं रम्यतायां जिन-जिनगृहयोः सुस्थितत्वोद्भवायां, सा स्यात्तद् द्रव्यसिद्धेरिति सुकृतभरा वर्धने बद्धकक्षाः। " न्यायेनाऽऽरम्भशून्या गत विषयवधा धर्ममानार्थवाञ्छाः, .. . सर्वेषां मुक्तिकाङ्क्षा जिनपदमतुलं नाद्भतं यद्धरन्ति // 42 // ये सत्वा नहि तादृशं धनबलं युक्तिप्रयोगं कलां, . . बुध्यन्ते प्रबलं च नो कथमपि वृद्धेः परं कारणम् / देवस्वस्य तदा नरास्तदवने स्युः सोद्यमा मुक्तये, सर्वेषामुपकारकस्य विधिना मुक्ति लभेरन् लघु // 43 // ये तु प्रोत्कटमोहराजजनितप्रावल्यभाजो नरा, . मिथ्यात्वाऽऽकुलचेतसो जिनधनं ताहक् प्रभावान्वितम् / नो वृद्धिं न च रक्षण प्रतिपदं नेतुं प्रवृत्ताऽऽदराः, भक्षन्ति प्रमदाः परैश्च निहते नो वारितुं सादराः // 44 // ते धर्मस्य विवर्धनं स्थितियुतं निर्णाशयन्तीतरे, ... तन्मोहं . समुपायं दुर्धरतरं प्राप्स्यन्ति दुःखान्विताः / P.P.AC. GunratnasuriM.S. Jun Gun Aaradhak Trust