________________ ज्ञात आगमोद्धारककृति पर्युषणा सन्दोहे रोद्धमिति / किञ्च-विचारणीयमेतदपि तैः-यत् शास्त्रकाराः मासाधिक्यवतः सर्वानपि संवत्सरानुद्दिश्याषाढ्या विंशतिरात्रातिक्रमे भवता सांवत्सरिकरूपतयाभिप्रेतां गृहिज्ञातपर्युषणां कर्तुमादिशन्ति, तेषां तत्रभवतां शास्त्रकतामभिप्रायेण पौषस्याषाढस्य वा वृद्धौ वर्षमभिवधिताख्यं तत्र चापाढया विंशत्याहोरात्राणां गृहिज्ञातपर्युषणायाः कृतिश्च, भवद्भिस्तु सांवत्सरिकस्य कृतौ सोक्तिरुरीकृता, उरीकृत्यापि न सर्वेष्वमिवर्धितेपूक्तमपि आचर्यते, शेषेषु शेषमासाधिक्येनाभिवतिसञ्ज्ञां प्राप्तेषु वर्षेषु विंशत्या सांवत्स रिकस्याकरणात् / किश्वाषाढ्याः प्राग्जातयोर्मासयोर्व्यपेक्ष्य 'ग्रीष्मे गत' इति वर्षावासात् प्राग्जातम- KI त धिकं मासं समुद्दिश्य अग्विया भावाद् विंशत्या पर्युषणा आज्ञायि भगवद्भिरधिकरणादिवर्जनार्थ, 1 खरतरसन्तानीयैस्तु वर्षावासकाल एवाधिके तद्वाक्यमालम्बितं, तदेतत् तत्त्वज्ञस्य नाश्चर्यकरं स्यादिति ? / IM किञ्च-पर्युषणाया अवस्थानरूपायाः कृतिस्तूत्सर्गादापाढ्यामेव / भाद्रपदामान्तेषु शेषेषु क्रियमाणा सापवा- A दिकी, भाद्रपदशुक्लपञ्चम्यां तु क्रियमाणा सा परमापवादिकी। एवं पर्युषणायाः करणे भेदत्रयी, A सांवत्सरिके त्वेक एव भाद्रपदशुक्लपञ्चम्यां विधानलक्षणो मार्गः। किञ्च-पर्युषणायामवस्थानलक्षणायां निर्णयकालादुदितिकालभेदः, गृहिज्ञातपर्युषणायामुदितिमात्रं न तु कृतेनियमः, सांवत्सरिके तु न तादृशं / वैविध्य, तत्र क्रियोदित्योः समकमेव करणादिति / एवं सत्यपि महति भेदे गृहिज्ञातपर्युषणा सांवत्सरिकं वा गृहिज्ञातपर्युषणारूपं समदिनभवननियमवद्वा द्वयमेतदिति खरतरैः ख्यायमानं केषां मध्ये ख्यातिमाप्नुयात् ?, तत्तु सुज्ञानां विदितचरमेवेति / ननु पञ्चम्या आगमोक्तत्वाच्चतुर्थ्यां सांवत्सरिकमावयोरयुक्तमिति चेत् / न, जीतव्यवहारस्य 'वत्तणुवत्तपवत्तो' इत्यादिलक्षणस्यागमोक्तत्वादेव / ननु 'जीएणं ववहरइत्तिवचनात् प्रायश्चित्ते एव जीवव्यवहारस्योक्तिः, संहननधृत्यादिहानीनां तत्रैवालम्बनत्वादिति / सत्यम् , // 51 // IMP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Tru