________________ कृतिसन्दोहे। 1146 // - रिष्यत्येव भवतामधिकमासस्य गणनायां विद्यमानः कदाग्रहः / निवृत्तं च तस्मिन्नैव भवान् श्रावणिकत्वाश्रयणेन आगमो- पर्युषणापर्वणो भेदविधौ तत्परतामाधास्यति / अन्यच्च भगवन्तो युगप्रधानाः श्रीकालकाचार्याः वर्तमानशासना ज्ञात-.. द्धारक-H धीश्वराः श्रीमलधारगच्छीयश्रीहेमचन्द्रसूर्यादिवचनात् श्रीवीरभगवतो निर्वाणात् त्रिपञ्चाशदधिकचतुःशत्यां, पर्युषणा तीर्थोद्वारनाम्ना प्रघोष्यमाणगाथामाश्रित्य तत एवाशीत्यधिकनवशत्यां, श्रीपर्युषणाकल्पगतं वाचनान्तरीयपुस्तकारूढिकालस्य पर्युषणातिथिपरावत्तहेतुत्वेनारोपितं वचनमाश्रित्य त्रिनवत्यधिकनवशत्यां पर्युषणातिथेः परावर्त चक्रुरिति गीयते / त्रिष्वपि मतेषु तद्वर्षमाभिवर्धितं, यतः संख्यासु पञ्चभिर्भक्तास्वेतासु शून्यं त्रयश्चावशिष्यन्ते / एवं च सिद्ध तस्मिन् परावर्त्तनवर्षे श्रीकालकाचाययुगप्रधानैर्यद्भाद्रपदशुक्ले पञ्चम्या सांवत्सरिकपर्युषणाकृतये श्रीसङ्घायादेशो दत्तः, परमश्रावकशातवाहनराज्ञोऽनुरोधेन च चतुर्थी सांवत्सरिकपर्युषणां चक्रुः। तत्सर्वमपि खरतराणां श्रावणिकानां मते नांशतोऽपि घटामटाट्यते / एवं चाधिकमासस्य गणनायामयुक्तत्वे सिद्धे यस्व कस्यापि मासस्य भवतु वृद्धिः, परं सा मासकल्पचातुर्मासिकसांवत्सरिकप्रमुखेषपेक्षितुमेव योग्या / योग्यं च सर्वेष्वपि समानरीत्या भाद्रपदशुक्ल पञ्चम्यां श्रीकालकाचार्यादेशाचतुर्थ्यामेव च सांवत्सरिकपर्युषणाकृत्यकरणं / न च श्रावणिकैः खरतरैरपि तिथिवृद्धिहान्योः पञ्चदशदिनात्मकपक्षनिर्वृत्तं पाक्षिकं चतुर्दशी विहायान्यदा क्रियते, इति किं शोभास्पदमार्हनशासनमङ्गीकुर्वाणानामिदमर्वजरतीयमनुष्ठानमिति ? / ननु भवद्भिरारब्ध गृहिज्ञातपर्युषणयोर्भिन्नकालकर्तव्यतामभिवर्धिते साधयितुं, तत्र गृहिज्ञातपर्युषणायामधिकमासस्य संख्यानं वृष्टथपेक्षितकृष्यादि क्रियाप्रत्ययिकमहं न तु पाक्षिकमासकल्पचातुर्मासिकसांवत्सरिकादिष्वित्यन्यान्यशास्त्रवचनैरनुमानप्रधानैः साधितं, परं गृहिज्ञातपर्युषणायाः सांवत्सरिकस्य साक्षाद्भदप्रतिपादनपरमनुमानहेतुकं किमिति शास्त्रवचनं न / दर्श्यते ? इति चेत् / सत्य, गृहिज्ञातपर्युपणाया हेत्वादिदर्शने सांवत्सरिकभिन्नतायाः स्वभावसिद्धेः, परं / // 46 // भवदाकाङ्क्षा चेत्तथाविधा, तर्हि तत्समाध्यर्थमपि क्रियते तत्र यत्नः। तत्र प्रथमं सांवत्सरिकं संवत्सरनिवृत्तं, / / Jun Gun Aaradhak Trust