SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगमो- द्धारक कृतिसन्दोहे 14 // | गृहिज्ञातवर्षावस्थानस्वरूपः पर्युषणादिवसोऽनियत आसीत् / यतोऽभिवर्धिते आधे आषाढ्या द्वितीयाषाढ्याश्च 1 द्वितीयेऽभिवर्धिते तस्य कृतिरासीत् , आपल्या विंशतौ दिनेषु चान्द्रे तु वर्षे आषाढयाः पञ्चाशति दिव- ज्ञातसेष्वतिक्रान्तेष्वासीदिति शासनानुरागिणां सवषामविप्रतिपन्नं मतं, परं तदात्वेऽपि सांवत्सरिक पर्व नियत- पयुषणा मनियतं वाऽऽसीदितिशङ्काशडुनाऽऽधुनिकाः शासनरागिणोऽपि बाध्यन्ते / सम्प्रति च नवीनतरलौकिकपञ्चाङ्गस्यापि जैनः समस्तैः स्वीकारात् , तत्र च श्रावणभाद्रपदयोरपि वृद्धिसम्भवे सांवत्सरिकं कदा कार्यमिति बहवो मोमुह्यन्ते / केचिदशीत्या केचिच्च पञ्चाशता दिवसानामाषाढ्यास्तद्विदधते परस्परं विवदन्ते च कर्कशं / तत्र सांवत्सरिकं शास्त्रानुसारेण न्यायेन कदा कार्या ? इति / अत्रोच्यते-धीधनस्तावच्चिन्त्यमेतत् यदुत-प्राक्काले वर्षावस्थानस्य नियततायामस्ति हेतुविशेषो निर्दिष्टः शास्त्रकारर्यद्वा हेतुमन्तरा तथाऽऽज्ञप्तमिति ?, तथैवाभिवर्धिते आषाढ्या विंशतौ दिनेष्यतिक्रान्तेषु चान्द्रे च पश्चाशति आज्ञापयता वर्षावस्थानं तद्भदेऽपि तैहेतुविशेषो निर्दिष्टो न वेति ? / ननु श्रीपर्युषणाकल्पे एव पर्युषणायां वर्षावासावस्थानरूपायां निश्चितः प्रश्नपूर्वको हेतुः, तत्पाठश्चैवं- 'से केणट्ठणं भते ! एवं वुच्चइ - 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकंते वासावासं पज्जोसवेइ, जओणं पाएणं अगारीणं अगाराई कडियाई उत्कंपियाइं छन्नाई लित्ताई गुत्ताइ घट्ठाइ मट्ठाई संपधूमियाई खायनिद्धमणाई अप्पणो अट्ठाए कडाइं परिभुत्ताई परिणामियाई भवंति, से तेण?णं एवं वुच्चइ - 'समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकंते वासावासं पञ्जोसवेइ / अनेन प्रश्नोत्तरसूत्रवचनेनागाराणां परकृतपरिकारम्भनिष्ठार्थः स्पष्ट एव सविंशतिरात्रे मासि व्यतिक्रान्ते नियतावस्थाने हेतुविशेषः प्रतिपादितः। विशेषहेतुता चास्य सामान्येनाषाढपूर्णिमायां वर्षावासावस्थाने ये वर्षाविहरणे जायमानाः षट्कायविराधनादयो / दोषाः सविशेषिता अवगन्तव्या इति ज्ञापनाय / आषाढ्याः परतो वर्षासु विहरणे इमे दोषाः / // 41 // उक्तास्तद्यथा- 'छक्कायाण विराहण आवडण विसमखाणुकंटेसु। उज्झण अभिहण रुक्खोल्ल सावए तेण / P.P.AC.Gunratnasuri M.S Jun Gun Aaradhak Trust
SR No.036407
Book TitleAgamoddharak Kruti Sandohasya Part 02
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherMithabhai Kalyanchandji Pedhi
Publication Year1959
Total Pages105
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy