________________ परिशिष्ट* वैशाख पूर्णिमा वैशाखो मास एष साधु शोभते, साधु शोभते / आनन्दो जनमनसि येन वर्धते, येन वर्धते / सन्मानसमिव भाति स्वच्छतमनभः, स्वच्छतमनभः / . मरुतः श्रमक्लान्तिहरा वान्ति सुरभयः, वान्ति सुरभयः / नतकुसुमाञ्जलियुक्ताः सुगतसेविनः, सुगतसेविनः / भक्तजना इव विविधाः पादपा अमी, पादपा अमी / कोकिलादिपक्षिगणो मञ्जुलस्वरः, मञ्जुलस्वरः / गायन्निव बुद्धगुणान् तुष्टमानसः, तुष्टमानस: / .. आम्रादिकवृक्षवृन्दमाश्रयत्यसौ, आश्रयत्यसौ / . भूवनश्री वैभवेन पूर्णतां गता, पूर्णतां गता / वैशाखो मास एष साधु शोभते. साधु शोभते // मासेऽस्मिञ्छुभदिवसे पूर्णिमातिथी, पूर्णिमातिथौ / वज्रासनबन्धधरो विवुधपूजितः, विबुधपूजितः / शास्तानो धर्मात्मा बोधितरुतले, वोधितरुतले / / जित्वा कामादिरिपून्बुद्धतामगात, बुद्धतामगात् / सैष सुदिन उदितोऽस्ति बौद्धजनमुदे, बौद्धजनमुदे / मासेऽस्मिञ्छुभदिवसे पूर्णिमातिथी, पूर्णिमातिथौ // सुगतमन्दिरम् / दीपशोभितम् / बद्धतोरणम् / पुष्परञ्जितम् / यायाम वयं तत्र, पश्याम बुद्धपादौ / P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust